पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

216 श्रीमद्भगवद्गीता गीतार्थ संग्रहोपेता अत एव - सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ॥ ४ ॥ {" सर्वयोनिष्विति । सर्वासु योनिषु आदिकारणतया बूं- हिका भगवच्छक्तिः सकलसंसारजननस्वभावा? माता । पिता त्वहं शक्तिमान् अव्यपदेश्यः ॥ ४ ॥ सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥ सत्त्वमिति । देही चायं आत्मतया सत्त्वरजस्त मोभिर्धर्में: अपवर्गपर्यन्ताय भोगाय निबद्धयते ॥ ५ ॥ क्रमेणैषां रूपमुच्यते- तत्र सच्चं निर्मलच्चात् प्रकाशकमनामयम् । सुखसंगेन बध्नाति ज्ञानसंगेन चानघ ।। ६ ।। रजो रागात्मकं विद्धि तृष्णासंगसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसंगेन देहिनम् ॥ ७ ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥ तत्त्रेत्यादि भारतेत्यन्तम् । सत्त्वं निर्मलम् | तृष्णा- संगस्य समुद्भवो यतः । दुर्लमस्यापि चिरतरसंचितपुण्यशत- 1. S, B आद्यकारणतया 2. B,K -वमनस्वभावा