पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

200 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता यत्वे कर्मफलानि संन्यसितुं युज्यन्ते । अन्यथा अज्ञातरूपे क्व संन्यास : ? कर्मफलत्यागे च आत्यन्तिकी शान्तिः । अतः सर्वमूलत्वात् आवेशात्मकं ज्ञानमेव प्रधानम् ॥ १२ ।। अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ १३ ॥ संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मयपतमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥ अद्वेष्टेति । सन्तुष्ट इति । मैत्री अमत्सरता यस्य अस्ती- ति' । एवं करुण: । 'ममामी' इत्यादिः' ममकार:; 'अह- मुदार:' 'अहं तेजस्वी' 'अहं सहन : इत्यादिः अहंकारः; एतौ यस्य न स्तः । क्षमा अपकारिणं शत्रुं प्रत्य[प्य] द्वेषबुद्धिः । सततं योगी, व्यवहारावस्थायामपि प्रशान्तान्तःकरणत्वात् || १३-१४॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागो यो मद्भक्तः स मे प्रियः ॥ १६ ॥ 1. 2. 3. B,N रूपत्वे N यस्मात् for यस्य B omits इति 4. 5. 6. S, B, N तेजस्वी असहनः S, N करुणा B समापीत्यादि