पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

188 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता नमस्कृत्वा भूय एवाह कृष्णम् सगद्गदं भीतभीतः प्रणम्य ॥ ३६॥ अर्जुन उवाच- स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ३७ ।। स्थाने इति । प्रकीत्य, प्रकीर्तनेन ॥ ३७ ॥ कस्माच्च ते न नमेयुर्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत् तत्परं यत् ॥ ३८ ॥ कस्मादिति । सत् पदार्थत्वेन । असत् उपलम्भं प्रत्य- विषयत्वात् । अथ वा अभावोऽपि धियि विजविज विशिष्ट- वाचकसंश्लेषितो ज्ञानाकारमश्नुवानो न परब्रह्मसत्ताव्यति- रिक्तः । सदसद्रूपाभ्यां च परम्, तदुभयबुद्धितिरोधाने तद्रूपोप- लब्धेः ॥ ३८ ॥ 1. S प्रकीतिः प्रकीर्तनम् 2. B.N ३. S, Bomit न ... वाचकवचसंश्लेषितो