पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोऽध्यायः 20169 श्लो. २३ (व्या) अप्रतिलब्धमत्स्वरूपलाभ इति । संसारा- वस्थायामविद्या प्रतिबन्धात् अञ्चब्धमिव स्थितं यत् आत्मस्वरूपं तस्य लाभ इत्यर्थः । अथवा अप्रतिबद्धेति विवक्षितम् । अप्रति- बद्ध आत्मस्वरूपलाभ इत्यर्थः ॥ श्लो. २४-२७ (व्या) ननु अन्यदेवताभक्ताः इति व्या- घातवचनम्, वासुदेवतत्त्वादन्यदेवताया अभावात् इत्यतः अभि- प्रायमाह - नामधेयान्तरैरुपासते इति । एवं च इन्द्रादीनां नाम- धेयान्तरत्वमेव, अर्थात् वासुदेवोपासने करणान्तरत्वमेव, न तु देवतान्तरत्वमिति भावः । तदाह मामेवोपासते इति । तथा च मूले अन्यथब्दो नामधेयान्तरयुक्तपर इति आचार्याभिप्राय इव । अविधिः अन्यो विधिरिति । विधिरिति जातावेकवचनम् । अत एव विधिभिरित्याह । अव भन्यो विधिरित्यर्थ वर्णनसावं, सतु विग्रहप्रदर्शनम्; विध्यन्तरमित्यापत्तेः । विग्रहस्तु न वि धिरित्येव । नञर्थो भेदो भेदवान् वा; अन्यो विधिरित्यर्थ- प्रदर्शनस्वारस्यात् । अन विधिभिन्नार्थकत्वे अविधिशब्दस्य, उत्तरपदार्थप्रधानस्तत्पुष इति महाभाष्यवचनविरोधः । वञर्थस्य भेदस्य अनुयोगितया प्रतियोगितया वा, भेदवतो वा अभेदेव विधिपदार्थोऽन्वये प्रयोजनाभावः; व्यवहारदशायां भेदप्रतियो- गित्वानुयोगित्वयोः, भेदस्य च केवलान्वयित्वात् । 'यावद्विकारं विभागः' इति न्यायाच्च । तथा च नञः यत्किञ्चिद्वस्तुप्रतियो- गिकभेदे, तादृशभेदवति वा लक्षणाया वक्तव्यतया, तादृशवस्तु- - विशेषाकांक्षायां समभिव्याहृतविधिशब्दार्थ एव औचित्यात् ●●सामीप्याच्च हेतोरुपस्थित इति विधिप्रतियोगि कभेदवन्तो