पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोsध्ययन मन्मना मव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैत्रमात्मानं मत्परायणः ॥ ३५ ॥ ॥ इति श्रीमद्भगवद्गीतायां नवमोऽध्यायः ॥ मां हि इत्यादि मत्परायण इत्यन्तम् । पापयोवयः पशु- पक्षिसरीसृपादयः । स्त्रिय इति अज्ञाः । वैश्या इति कृष्यादि- कर्मान्तररताः । शूद्रा इति कात्स्येंन वैदिक क्रियानधिकृताः परतन्त्रवृ त्तयश्च । तेऽपि मदाश्रिता सामेव यजन्ते । गजेन्द्रमोक्ष- णादीनि चरितावि हि परमकारुणिकस्य भगवतः सहस्रशः श्रूयन्ते । किमङ्ग पुवरेतद्विपरीतवृत्तयः । 163 केचिदाचक्षते - द्विजराजन्यप्रशंसाप रमेतद्वाक्यम्, न तु स्वयादिषु अपवर्गप्राप्तितात्पर्येण इति । ते हि भगवतः सर्वा- तुग्राहिकां शक्ति मितविषयतया खण्डयन्तः; तथा परमेश्वरस्य परमकृपालुत्वमसहमाना: 1; 'न मे द्वेष्योऽस्ति व प्रियः', 'अपि चेत्सुदुराचारः' इत्यादीन्यन्याति चैवंप्रकारस्फुटार्थप्रतिपाद- कानि वाक्यानि विरोधयन्तः; निरतिशययुक्ति प्रपश्वसाधिता- द्वैतभगवत्तत्वे 2 भेदलिङ्गं बलादेवावयन्तः; अन्यांश्च आगम- विरोधानचेतयपाना:; 'कथमिदं कथमिदम्' इति पर्यनुयोज्य- माता' यदि, परम् अन्तर्गर्भीकृतजात्यादिमहाग्रहाविष्टान्त: S 1. Somits तथा --- मसहमाना: 2. 3. S, B, N भगवत्तत्त्वम् S, B भेदभङ्गम्; N भेदभङ्ग- B.N पर्यनुयुज्यमानः 4. 5. B. N - ग्रहगृहीताविष्ठान्तः -