पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता सति 'मामेव यजन्ते, सर्वयज्ञानाचाहमेव भोक्ता' इति दृश्य- मानमेतदसमञ्जसीभवेत् इत्यलं कल्मषकलिलैस्साकं संलापेन । - अस्मद्गुरवस्तु निरूपयन्ति - अन्या स्वात्मव्यतिरिक्ता भेदवादनयेन ब्रह्मस्वभावहीनैव काचिद्देवता इति गृहीत्वा तामेव [ये] यजन्ते तेऽपि वस्तुतो मामेव स्वात्मरूपं यजन्ते, कि तु अविधिता दुष्टेन विधिना भेदग्रहणरूपेण इति । - अत एवाह न तु मां स्वात्मानं तत्त्वेन देवतारूपतया भोक्तृत्वेन जानन्ति, अतश्चलन्ति ते मद्रूपात् । किम् ? देवव्रतत्वेन देवान् यान्ति इत्यादि । एतदेव चलनमिति यावत् | ये तु मत्स्वरूपमभेदेन + विदुः, ते देवभूतपितृयागादिनाऽपि मामेव यजन्ते । ते च मद्याजिनो मामेव गच्छन्ति इत्युपसंहरिष्यति । ननु द्रव्यत्यागार्थमुद्दिष्टा देवता इत्युच्यते । तत् कथमनु- द्दिश्यस्वात्मतत्त्वस्य याज्यत्वम् ? आदित्यः प्रायणीयश्चरुः इति विधिशेषभूतदेवता उद्देशात्मक विध्यन्तरभावितो' ह्यसौ उद्देश:- (श्यः) । न च स्वात्मविषयो? विधिरस्ति इत्यभिप्रायेणाह- अविधिपूर्वकं मामिति । स्वात्मव्यतिरिक्तायां देवतःयामस्ति 1. S, B मेदग्रहरूपेण S, B, N च्यवन्ते 3. SBN च्यवन 4. B, N – स्वरूपभेवे (द) न 5. N यजन्ति 6. B, N प्रभावितो 7. S,B,N omit विषयो 2.