पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टोsध्याय: 147 स्यात् ; पूर्वं सप्तमाध्यायेऽपि 'भूमिराप' इत्यादिना (श्लो. ४) प्रथमतः पृथिव्यादिभूतप्रकृतित्वं भगवत उक्त्वा तदनन्तरमेव 'अपरेयम् जीवभूताम्' इति (श्लो. ५) जीवप्रकृतित्वस्योप- वर्णितत्वात्; भूतशब्दस्य सामान्यतो जडवाचकत्वप्रसिद्धेः, ब्रह्मादिप्रमातृत्ववाचकत्वाप्रसिद्धेश्व; भावशब्दस्य तु पूर्वोप- दशितव्युत्पत्त्या प्रमातृवाचकत्व संभवाच्च । बहिर्भूतावभासनात्मा इत्यत्र बहिरिति अवभासनक्रिया- विशेषणम्; अन्तविद्यमानस्य बहिराभासनमेव सृष्टिरिति आभासवादिनां प्रत्यभिज्ञाशास्त्रकाराणां समयात् । बहिर्भूत- भावान्तरावभासनात्मा इत्यतापि बहिरिति अवभासनविशेषण- मेव । अव भूतेत्यधिकं प्रविष्टम् । अथवा भावशब्दो भूतभावे भूतानि भावयति इत्येतस्मिन्नर्थे वर्तते इति प्रदर्शयितुमुक्तो वेदितव्यः । स्वात्मनोऽपि संविद्रूपतया भूतभावकत्वात् तद्विवे कप्रदर्शनाय भावान्तरेति । अथवा भावयति इति भावः । चैतन्यमित्यर्थः । बहिः भावस्य यत् अवमासनं तदात्मा अर्थात् प्रमातृरूपः । बहिर्भूता ये भावान्तरा, अर्थात् प्रमातृतो भिन्ना ये बाह्या विषया: जड- त्वेच लोकप्रसिद्धाः, तत्त्वेन अवभासनात्मा अर्थात् जडरूपः इति अर्थो वर्णनीयः । सर्वं खलिदं चेतनं ब्रह्म; लौकिको जडाजड- विभागस्तु चेतनस्य अविभावनविभावनाभ्यां संभवति इति हि आचार्योपदर्शितः परमाद्वैतराजमार्गः । इदानीं भूतभावोद्भवकर इत्यस्यैव मूलस्य भूतस्य यो भावः तस्योद्भवकर इति विग्रहमङ्गीकृत्यापि अर्थ वर्णयितुमाह- तथेति । अस्मिंश्च पक्षे भूतशब्दः सत्यापरपर्याययथाभूतार्थकः ।