पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता यदि वा सतताभ्यासोऽपि यैर्न कृतः, तथापि कुतश्चित् स्वत- न्वेश्वरेच्छादेवि मित्तादन्त्ये एव क्षणे यदा तादृग्भावो जायते, तदा अयमुत्क्रान्तिलक्षण उपाय: संस्कारान्तरप्रतिबन्धक उक्तः । अत एव 'यदक्षरं वेदविदो वदन्ति' इत्यादिना 'अभिधास्ये' इत्य- न्तेन प्रतिज्ञा कृता क्षणमावस्यापि भगवदनुचिन्तनस्य सकल- संस्कार विध्वंसनलक्षणाम् अद्भुतवृत्तिं प्रतिपादयितुम् । यदाहु- राचार्यवर्याः- निमेषमपि यद्येकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शंभो कि न संपादयिष्यसि ॥ (स्तवचिन्तामणिः, श्लो ११४) इति । अत एव 'प्रयाणकाले स्मरणेन विना खण्डना [दृष्टा] इति येषां शङ्का तान् वीतशङ्कान् कर्तुमुक्तम् 'अनन्यचेताः सततम्' इति अन्यत्र फलादौ साध्ये यस्य न चेत इत्यर्थः । तस्याहं सुलभ इति । तस्य + न किंचित् प्रयाण कालौचित्य पर्येषणम्, तीर्थसेवा, उत्त- रायणम्, आयतनसंश्रयः, 5 सत्त्वविशुद्धिः,' सचिन्तकत्वम्, 7 विषुवदादिपुण्यकालः, दिनम्, अकृत्रिमपवितभूपरिग्रहः, स्नेह- मलविहीनदेहता, शुद्धवस्त्रादिपरिग्रहः' इत्या दिक्लेशोऽभ्यर्थ- 1. Somits स्वतन्त्र- 2. S, B चिन्तनमयस्य 3. Somits यदाहु 4. S, Bomit तस्य N आवर्तनसंश्रयः 5. 6. S,K - विवृद्धिः 7. N सचित्तकत्वम् 8. S, B, Nomit परि- इति