पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मदर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ७ ॥ अन्त कालेऽपि इत्यादि असंशयम् इत्यन्तम् । न केवलं स्व- स्थावस्थायां यावत्, अन्तकालेऽपि । मामेति व्यवच्छिन्न- सकलोपाधिकम् । कथं च अस्वस्थावस्थायां विनिवृत्तसकले- न्द्रियचेष्टस्य भगवान् स्मृतिपथमुपेयात् इत्युपायमपि उपदिशति तस्मादिति । सर्वावस्थासु व्यावहारिकीष्वपि यस्य भगवत्तत्त्वं न हृदयादपयाति, तस्य भगवत्येव सकलकर्मसंन्यासिनः सततं भगवन्मयस्य अवश्यं स्वयमेव भगवत्तत्वं स्मृतिविषयतां याती- - ये- ति । सदावद्भावभावितत्त्वं च अन हेतुः । अतः एवाह नैव वस्तुना सदा भावितान्तःकरणः, 3 तदेव मरणसमये स्मर्यते तद्भाव एव च प्राप्यते इति । सर्वथा मत्परम एव मत्प्रेप्स स्यादित्यत तात्पर्यम् । न तु यदेवान्ते स्मर्यते तत्तत्त्वमेवावा- प्यते इति । एवं हि सति ज्ञानिनोऽपि यावच्छरीरभाविधातु- दोषविकलितचित्तवृत्तेर्जडतां प्राप्तस्य तामसस्येव गतिः स्यात् । न च अभ्युपगमोऽव युक्त, प्रमाणभूतश्रुतिविरोधात् । अस्ति हि- 135 - 1. B,N कालेऽपीति 2. K (n) अन्तावस्थायाम् 3. B,N,K (n) अन्त:करणभाव: 4. N तत्तदेवावाप्यते तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ इति (PS, 83)