पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः 125 चतुविधा इत्यादि सुदुर्लभ इत्यन्तम् | ये तु मां भजन्ते, ते सुकृतिनः । ते च चत्वारः । सर्वे चेते उदाराः । यतः अन्ये कृपणबुद्धयः अतिनिवारणम् अर्थादि च तुल्यपाणिपादोदर- शरीरसत्त्वेभ्योऽधिकतरं वा आत्मन्यूनेभ्यो मार्गयन्ते । ज्ञान्य- पेक्षया तु [ते] न्यूनसत्त्वाः, यतः तेषां तावत्यपि भेदोऽस्ति 'भगवतः इदमहमभिलष्यामि' इति भेदस्य स्फुटप्रतिभासात् । ज्ञानी तु मामेवाभेदतया अवलम्बते इति ततोऽहममिन्न एव । तस्य च अहमेव प्रियः न तु फलम् । अत एव स 'वासुदेव एव सर्वम्' इत्येव2 दृढप्रतिपत्तिपवित्वीकृतहृदयः ॥ १६-१९ ॥ कामैस्तैस्तैर्हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥ यो यो यां यां तनुं भक्तः श्रद्धयाचिंतुमिच्छति । तस्य तस्याचलां श्रद्धां तामेत्र विदधाम्यहम् ॥ २१ ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥ २२ ॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भता यान्ति मामपि ॥ २३ ॥ कामैरित्यादि मामपीत्यन्तम् । ये पुनः स्वेन स्वेनोत्त- पादिकामवास्वभावेन विचित्रेण परिच्छिन्नमवसस्ते कामनाप- हृत चेतना: ॐ तत्समुचितामेव ममैवावान्तरतनुं देवताविशेष मुफा- 1. S omits gfa 2. S वासुदेवः सर्वमेवम् 3. B, N - चेतसः