पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

118 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. ४९ युक्ततम इति मूलम् । युक्तानां मध्ये उत्तम इति तदर्थः । तस्योत्तमत्वं च तदीययोगस्योत्तमत्वाधीनम् । उत्तमोत्तमो योगश्च परमेश्वरसमावेशरूपः । तथा च फलितार्थ- माह व्याख्यायां परमेश्वरसमाविष्ट इति । सेश्वरस्य ज्ञानस्य, सेश्वरस्य ज्ञानयोगस्येत्यर्थः । तथा च अवतरणिकया एक- वाक्यता || - संग्रहश्लोके भगवन्नामेति । एवमेव पठन्ति सर्वां मातृका: । महाभारतमातृकास्वपि कासुचित् इदं पद्यम् एत- दध्यायान्ते संग्रहश्लोकत्वेन समुद्धृतमिति शोधितप्रकाशितमहा- भारतपुस्तके पश्यामः । तत्रापि भगवन्नामेत्येव पाठः । परन्तु प्रकृतं न भगवन्नामप्रकरणम्; अपि तु परमेश्वरसमावेशयोग- प्रकरणम् । एवं च कच्चिदाचार्येण भगवन्मानसंपत्तिमात्रादि- त्येव लिलेखिषितम् ? भगवति मानः चित्तसमुन्नतिः, या च 'यत्रोपरमते चित्तम्' इत्यादिना 'आत्मन्येव वशं नयेत्' इत्यन्तेन. भागेन प्रकृताध्याय हृदयभूतेनोपदिष्टा, तस्याः संपत्तिमात्रात् सर्वं सुखमुत्तममवाप्यते योगिना इति संग्रहश्लोकार्थः । अथ वा भगवन्नामेत्येव पाठः । भगवान् इति नाम आख्या यस्य तस्य प्राप्तिः, भगवन्नाम्नी या प्राप्तिः इति वार्थः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रह टिप्पण्यां षष्ठोऽध्यायः ॥