पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः एवं प्राक्तनेनाध्यायगणेन साधितोऽर्थः श्लोकद्वयेन निगद्यते- अनाश्रितः कर्मफलं कार्य कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥ २ ॥ अवाश्रित इति । यं संन्यासमिति । कार्यं स्वजात्यादिवि- हितम् । संन्यासी योगीति पर्यायावेतौ । अत एवाह- यं संन्यासमिति । तथा च योगमन्तरेण संन्यासो नोपपद्यते । एवं संकल्पसंन्यासं विना योगो न युज्यते । तस्मात्सतत संबद्धौ योग- संन्यासौ । न विरग्निरित्यादिना अयमर्थो ध्वन्यते- 'निरग्निश्च न भवति निष्क्रियश्च न भवति; अथ च संन्यासी इत्यद्भुतम्' इति ॥ १-२ ॥ यद्यपि 'द्यूतम् असिंहासननं राज्यम्' इति [रीत्या] युक्तया च केवलस्य निष्क्रियस्य संन्यासित्वं नोपपद्यते इत्युक्तम् । तथापि- आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥ 1. S संन्यासीति 2. N हृतम् 3. K उपपद्यते