पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता श्लो. ३४-३५ (व्या) संवित्तिविशेषानुगृहीता इति । संवित्त्या विशेषेणानुगृहीता इत्यर्थः । तत्वम् उप इति । अनेनेदं सूचितं भवति - तद्विद्धीति गीतापद्ये तृतीयपादम् 'उपदेक्ष्यन्ति ते तत्त्वम्' इति पपाठ बाचार्य इति । सार्वत्रिकस्तु पाठ: 'उपदेक्ष्यन्ति ते ज्ञानम्' इति । - साम्ये इति - साम्यप्रदर्शनायेत्यर्थः । निमित्तात् कर्मयोगे सप्तमी । विशेषः विशेषको धर्मः, सदुभयनिष्ठेत्यादिः । असाम्ये इति सति सप्तमी । असाम्ये विवक्षिते सति इत्यर्थः । विक- स्पानुपपत्तिः विकल्पाद्यर्थानुपपत्तिः, अथो इत्यस्येत्यादिः ॥ श्लो. ३६-३७ (अ) सर्व फर्म इति द्वितीयेन इति । सर्व- कर्माणि' इत्यादिना द्वितीयश्लोकगतेनेति विवक्षितम् । एवं च 'सर्वकर्माणि' इत्यादिना द्वितीयश्लोकगतेन 'संस्कारलेशोऽपि ' बावतिष्ठते' इति अखिलम् इत्यस्वार्थं सूचयम् व्याचष्टे इत्यन्वयः।। श्लो. ३८ (व्या) संवृद्धयेति, अथवा संवृत्येति । संवित्त्येति विवक्षितमिव । संवित्तिसंबन्धेनेत्यर्थः ॥ श्लो. ३९-४० (व्या) तस्मादित्यादिना अश्रद्दधानस्वादि त्यन्तेन अर्थतः पुनरुक्तमिव यत् अव्यवहितपूर्ववाक्येनोक्तम् ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां चतुर्थोऽध्यायः ॥