पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

78 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता त्मनि जुह्वति इति पिण्डस्थैर्यात्मा स्वाध्यायः । शिष्यात्मवा च वयानयग्रहणाय केचिदस्तं यान्तम् उदी (द) यमाने संवेश्य, तदेकी- कारेण अपवर्गदानात् आत्मनि शिष्यात्मनि च शोधनबोधन- प्रवेशनयोजनरूपे स्वाध्याययज्ञे 2 स्वपरानन्दमये प्रतिष्ठित मनसः । अत एव पूरकः प्रथममुक्तः, चरमं रेचकः । प्रथमेन च पादेव विषयभोगान्तर्मुखीकरणं द्वितीयेन महाविदेहधारणाक्रमाद्विषय- ग्रहणाय निस्सरणं 4 ध्वन्यते । अतश्च स्वाध्याययज्ञेभ्यो [व अन्ये] ज्ञावयज्ञाः । एत एवोक्तव्यापारपरिशीलनावशपरिपूरितस्वात्म- शिष्यात्ममनोरथाः द्वे अप्येते गती निरुध्य आहारं विषयभोगा- त्मकं नियम्य, प्राणान् सकलचित्तवृत्त्युदयान् प्राणेषु परविरा- नन्दोल्लासेषु, जुह्वति कुंभकप्रशान्त्या अर्पयन्ति । सर्वे चैते द्रव्य- यज्ञात् प्रभृति ज्ञानयज्ञान्तं यज्ञस्य तत्त्वज्ञाः, तेनैव च क्षपित- कल्मषाः समूलोन्मूलितभेदवासनामयमहामोहाः ॥ २९-३० ॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥ यज्ञेति । यज्ञेन शिष्टम् आहृतं यज्ञाच्च' निजकरणतर्पण- रूपादवशिष्टं [वा] स्वात्मविश्रान्तिरूपं परावन्द विरानन्दात्म- 1. S अपवर्गात् 2. S.B.N स्वाध्यायज्ञाने 3. B,N भागेन 4. N विसारणम् 5. S omits अर्पयन्ति 6. B, N यज्ञाश्च 7. B,N परानन्दं