पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽध्यायः निराशीर्यतचित्तात्मा त्यक्त सर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || २१ ।। त्यक्त्वेति । निराशीरिति । अभिप्रवृत्तोऽपि आभि मुख्येन प्रवृत्तोऽपि । शरीरोपयोगि इन्द्रियव्यापारात्मकं कर्म शारीरं यत् मनोबुद्धिभ्यां न तथा अनुरञ्जितम् ॥ २०-२१ ॥ यहच्छालामसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥ २२ ॥ यदृच्छेति । त्वापि न निबध्यते । कर्मकर्तरि प्रयोगः । स्वयमेव हि आत्मानं बध्नाति फलवासनाकालुष्यमुपाददात: इत्यर्थ. 2 | अन्यथा जडानां कर्मणां बन्धने स्वातन्त्र्यं न तथा हृदयंगमम् ॥ २२ ॥ 73 गतसंगस्य मुक्तस्य ज्ञानावस्थित चेतसः । यज्ञायारभतः कर्म समग्र प्रविलीयते ॥ २३ ॥ गतसंगस्येति । यज्ञायेति जातावेकवचनम् । यज्ञाः कक्षा- माणलक्षणाः ॥ २३ ॥ यज्ञायेत्युक्तम् तत्स्वरूपसामान्यं तावदाह - ब्रह्मार्पणं ब्रह्महविर्त्रह्माग्नौ ब्रह्मणा द्रुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥ २४ ॥ ब्रह्मार्पणमिति । ब्रह्मणि अर्पणं, तत एव प्रवृत्तस्य पुत्र- स्तत्रैव अनुप्रवेशनं यस्य तत् । ब्रह्म समग्रं विश्वात्माकं यदैतत् 1. BN उपाददानः, गृह्णान: 2. S omits इत्यर्थः