पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता रूपत्वात् प्रायशः समानयोगक्षेमत्वाच्च । समुच्चलत्सदाशिव- महेश्वरभावेति वा विवक्षितम् । अधिकमन्यत । अग्नौ प्रास्ताहुतिः इत्यादि । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ इति मनुस्मृतौ (III, 76) दर्शितरीत्या आदित्य मेति इत्यर्थः । श्लो. २६ (अ) परमोडयमनर्थ इत्यनुग्रहाय इति । तदुक्तं मधुसूदनसरस्वतीभिरस्मिन्नेव प्रकरणे- अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् । महानिरयजालेषु स तेन विनियोजितः ॥ इति (मू) जोषयेदिति । जुष परितर्कणे परितर्पणे वा चुरादिः । परि- तर्कणं, हिसा; परितर्पणं, परितृप्तिक्रिया || श्लो. २८ (व्या) विभागेति । विभज्यते पदार्थः अनेनेति विभाग: विभाजकधर्मः ॥ पलो. ३० (अ) जुपेवेति । जुषधातोः घृषाद्यन्तर्गतत्वात् चुरादिप्रयुक्तणिज्विकल्पः ॥ श्लो. ३३ (व्या) एवमेव जानन् इति। विवक्षितज्ञान- स्याकारं दर्शयति यत इत्यादिना निग्रह इत्यन्तेन । अयं च ज्ञाना- कारः प्रकृतगीताश्लोकोत्तरार्धे दर्शित इत्यभिप्रायः । तथा चैता- दृशज्ञानवानपि ज्ञानी स्वशरीरारंभक-भूतप्रकृतेः सत्त्वादेरनुगुण-