पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 57 स एष इति । छिद्राणि प्रेक्षते 'अमुना छिद्रेणास्य इहलोक- परलोकौ नाशयामि' इति । तथा च मोक्षधर्मेषु- यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यते यज्जुहोति । वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य 1 || इति (म. भा. शान्ति, मोक्ष., अध्याय २८८, श्लो. २७) रजसः प्रवृत्तः तमोरूप इत्यर्थः ॥ ४२ ॥ धूमेनात्रियते वह्निर्यथादर्शो मलेन च यथोल्वेनावृतो गर्भस्तथा तेनायमावृतः ॥ ४३ ॥ धूमेनेति । दृष्टान्तत्रयेण दुरुपसर्गत्वम्, 2 अकार्यकरत्वं, जुगुप्सास्पदत्वं च उक्तम् । अयमिति आत्मा ॥ ४३ ॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्रेणानलेन च ॥ ४४ ॥ आवृतमिति । कामरूप इच्छायां यतश्चरति । अनलेन च अग्निनेव पूरयितुमशक्येन, दृष्टादृष्टद्वयदाहकत्वात् ॥ ४४ ॥ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनाम् ॥ ४५ ॥ इन्द्रियाणीति | आदाविन्द्रियेषु [व्यापृतेषु] सत्सु तिष्ठति । यथा चक्षुषा शत्रुः दृष्टः इन्द्रियप्रदेशे एव क्रोधमात्मनो जनयति । 1. B,N भवति हि क्रोधनस्य 2. K दुरुपसर्पत्वम्