हित्वा निद्रा प्रबुध्यन्ते सुषुप्तेर्बोधिताः परैः ॥ |
तदेवं वचनविषयस्य वक्तुर्वचनक्रियायाश्चात्याश्चर्यरूपत्वादात्मनो दुर्विज्ञानत्वमुक्त्वा श्रोतुर्दुर्मिलत्वादपि तहाह-आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेदेति । अन्यो द्रष्टुर्वक्तुश्च मुक्ताद्विलक्षणो मुमुक्षुर्वक्तारं ब्रह्मविदं विधिवदुपसृत्यैनं शृणोति श्रवणाख्यविचारविषयी करोति वेदान्तवाक्यतात्पर्यनिश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनननिदिध्यासनपरिपाकाद्वैवापि साक्षात्करोत्यपि आश्चर्यवत् । तथा चाऽऽश्चर्यवत्पश्यति कश्चिदेनमिति व्याख्यातम् । अत्रापि कर्तुराश्चर्यरूपत्वमनेकजन्मानुष्ठितसुकृतक्षालितमनोमलतयाऽतिदुर्लभत्वात् । तथा च वक्ष्यति--
"मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । |
इति श्रुतेश्च ॥
एवं श्रवणश्रोतव्ययोराश्चर्यत्वं प्राग्वद्वयाख्येयम् । ननु यः श्रवणमननादिकं करोति स आत्मानं वेदेति किमाश्चर्यमत आह-न चैव कश्चिदिति । चकारः क्रियाकर्मपदयोरनुषङ्गार्थः । कश्चिदेनं नैव वेद श्रवणादिकं कुर्वन्नपि । तद् कुर्वस्तु न वेदेति किमु वक्तव्यम् । * ऐहिकमप्रस्तुतप्रतिबन्थे तदर्शनात् इति न्यायात् । उक्तं च वार्तिककारैः--
"कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् । |
श्रवणादि कुर्वतामपि प्रतिबन्धपरिक्षयादेव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्धपरिक्षयः कस्यचिदूत एव । यथा हिरण्यगर्भस्य । कस्यचिद्भावी । यथा वामदेवस्य । कस्यचिद्वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्धक्षयस्यातिदुर्लभत्वात् "ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः !” इति स्मृतेश्च दुर्विज्ञेयोऽयमात्मेति निर्गलितोऽर्थः । यदि तु श्रुत्वाऽप्येनं वेद न चैव कश्चिदित्येव व्याख्यायेत तदा