श्रीगोविन्दमुखारविन्दमधुना मिष्टं महाभारते |
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधु.
सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां संन्या-
सयोगप्रतिपादनं नामाष्टादशोऽध्यायः ॥ १८ ॥
(समाप्तेयं श्रीमधुसूदनसरस्वतीविरचिता श्रीमद्भगवद्गीतागूढार्थदीपिका टीका ।)
श्री. टी०-अतस्त्वं स्वपुत्राणां राज्यादिशङ्कां परित्यजेत्याशयेनाऽऽह- यत्रेति । यत्र येषां पक्षे योगे[१]श्वरः श्रीकृष्णो वर्तते । यत्र च पार्थों गाण्डीवधनुर्धरः, तत्रैव श्री राज्यलक्ष्मीः, तत्रैव च विजयः, तत्रैव च भूतिरुत्तरोत्तराभिवृद्धिश्च, नीतिर्नयोऽपि तत्रैव ध्रुवा निश्चितेति सर्वत्र संबध्यते । इति मम मतिर्निश्चयः । अत इदानीमपि तावत्सपुत्रस्त्वं श्रीकृष्णं शरणमुपेत्य पाण्डवान्प्रसाद्य सर्वस्वं च तेभ्यो निवेद्य पुत्रप्राणरक्षणं कुर्विति भावः ॥ ७८ ॥
भगवद्भक्तियुक्तस्य तत्प्रसादात्मबोधतः । |
तथाहि-" पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |
इत्यादौ भगवद्भक्तमोक्षं प्रति साधकतमत्वश्रवणात्तदेकान्तभक्तिरेव तत्प्रसादोत्थज्ञानावान्तरव्यापारमात्रयुक्ता मोक्षहेतुरिति स्फुटं प्रतीयते । ज्ञानस्य च भक्त्यवान्तरव्यापारत्वमेव युक्तम् ।
" तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । |
इत्यादिवचनात् । |
- ↑ ख. ग. घ. च. छ, ज. झ. योगमायेश्वरः ।