तामसयज्ञादिकारिणोऽसुराः शास्त्रीयज्ञानसाधनानधिकारिणः सात्त्विकश्रद्धापूर्वकं सात्त्विकयज्ञादिकारिणस्तु देवाः शास्त्रीयज्ञानसाधनाधिकारिण इति श्रद्धात्रैविध्यप्रदर्शनमुखेनाऽऽहारादित्रैविध्यप्रदर्शनेन[१] भगवता निर्णयः कृत इति सिद्धम् ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसुदन-
सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां श्रद्धात्रयवि-
भागयोगविवरणं नाम सप्तदशोऽध्यायः॥ १७ ॥
श्री० टी०-इदानीं सर्वकर्मसु श्रद्धयैव प्रवृत्त्यर्थमश्रद्धाकृतं सर्वं निन्दति- अश्रद्धयेति । अश्रद्धया हुतं हवनं दत्तं दानं तप्तं निर्वतितं तपः । यच्चान्यदपि कृतं कर्म तत्सर्वमसदित्युच्यते । यतस्तत्प्रेत्य लोकान्तरे न फलति विगुणत्वान्नो इह न चास्मिल्लोके फलति अयशस्करत्वात् ॥ २८ ॥
रजस्तमोमयीं त्यक्त्वा श्रद्धां सत्त्वमयीं श्रितः । |
इति श्रीसुबोधिन्यां श्रीधरस्वामिविरचितायां श्रद्धात्रयविभा-
गयोगविवरणं नाम सप्तदशोऽध्यायः ॥ १७ ॥
अथाष्टादशोऽध्यायः।
म० टी०-पूर्वाध्याये श्रद्धात्रैविध्येनाऽऽहारयज्ञतपोदानत्रैविध्येन च कर्मिणां त्रैविध्यमुक्तं सात्त्विकानामादानाय राजसतामसानां च हानाय । इदानीं तु संन्यासत्रैविध्यकथनेन संन्यासिनामपि त्रैविध्यं वक्तव्यं तत्र तत्त्वबोधानन्तरं यः फलभूतः सर्वकर्मसंन्यासः स चतुर्दशेऽध्याये गुणातीतत्वेन व्याख्यातत्वान्न सात्त्विकराजसतामसभेदमर्हति । योऽपि तत्त्वबोधात्प्राक्तदर्थं सर्वकर्मसंन्यासस्तत्त्वबुभुत्सया वेदान्तवाक्यविचाराय भवति सोऽपि "त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन" इत्यादिना निर्गूणत्वेन व्याख्यातः । यस्त्वनुत्पन्नतत्त्वबोधानामनुत्पन्नतत्त्वबुभुत्सानां च कर्मसंन्यासः "स संन्यासी च योगी च" इत्यादिना गौणो व्याख्यातस्तस्य त्रैविध्यसंभवात्तद्विशेषं बुभुत्सुः-
अर्जुन उवाच- |