नाऽऽसुर्याः संपदः परमकष्टतमायाः परिहाराय त्वरयैव यथाशक्ति दैवी संपदनुष्ठेया श्रेयोर्थिंभिरन्यथा तिर्यगादिदेहप्राप्तौ साधनानुष्ठानायोग्यत्वान्न कदाऽपि निस्तारोऽस्तीति महत्संकटमापद्यतेति समुदायार्थः । तदुक्तम्-
इहैव नरकव्याधेश्चिकित्सां न करोति यः । |
श्री०टी०–ते च-आसुरीमिति । मामप्राप्यैवेत्येवकारेण मत्प्राप्तिशङ्का कुतस्तेषां मत्प्राप्त्युपायं सन्मार्गमप्यप्राप्य ततोऽप्यधमां[२] कृमिकीटादियोनि[३] गतिं च यान्तीत्युक्तम् । शेष स्पष्टम् ॥ २० ॥
म. टी.-नन्वासुरी संपदनन्तभेदवती कथं पुरुषायुषेणापि परिहर्तुं शक्यतेत्याशङ्कय तां संक्षिप्याऽऽह-
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ॥ |
इदं त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ द्वारं साधनं सर्वस्या आसुर्याः संपदो मूलभूतमात्मनो नाशनं सर्वपुरुषार्थायोग्यतासंपादनेनात्यन्ताधमयोनिप्रापकम् । किं तदित्यत आह-कामः क्रोधस्तथा लोभ इति । प्राग्व्याख्यातम् । यस्मादेतत्रयमेव सर्वानर्थमूलं तस्मादेतत्रयं त्यजेत् । एतत्रयत्यागेनैव सर्वाऽप्यासुरी संपत्त्यक्ता भवति । एतत्रयत्यागश्चोत्पन्नस्य विवेकेन कार्यप्रतिबन्धः । ततः परं चानुत्पत्तिरिति द्रष्टव्यम् ॥ २१ ॥
श्री० टी--उक्तानामासुरदोषाणां मध्ये सकलदोषमूलभूतं दोषत्रयं सर्वथा वर्ज नीयमित्याह-त्रिविधमिति । कामः क्रोधो लो [४] भ इदं त्रिविधं नरकस्य द्वारम् । अत एवाऽऽत्मनो नाशनं नीचयोनिप्रापकं, तस्मादेतत्रयं सर्वात्मना त्यजेत् ॥ २१ ॥
म०टी०-एतत्रयं त्यजतः किं स्यादिति तत्राऽऽह-
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ॥ |
एतैः कामक्रोधलोभैर्त्रिभिस्तमोद्वारैर्नरकसाधनैविमुक्तो विरहितः पुरुष आचरत्यात्मनः श्रेयो यद्धितं वेदबोधितं हे कौन्तेय, पूर्व हि कामादिप्रतिबद्धः श्रेयो नाऽऽचरति येन पुरुषार्थः सिध्येत् । अश्रेयश्चाऽऽचरति येन निरयपादः स्यात् । अधुना तत्प्रतिबन्धरहितः सन्नश्रेयो नाऽऽचरति श्रेयश्चाऽऽचरति । तत ऐहिक सुखमनुभूय सम्यग्धीद्वारा याति परां गति मोक्षम् ॥ २२ ॥