सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । |
श्री०टी०-असङ्गत्वाल्लेपो नास्तीत्याकाशदृष्टान्तेनोक्तम् । प्रकाशकत्वाच्च प्रका- श्यधमैर्न युज्यत इति रविदृष्टान्तेनाऽऽह-यथेति । स्पष्टार्थः ॥ ३३ ॥
म०टी०-इदानीमध्यायार्थं सफलमुपसंहरति-
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ॥ |
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञ-
विभागयोगो नाम त्रयोदशोऽ-
ध्यायः ॥ १३॥
क्षेत्रक्षेत्रज्ञयोः प्राग्व्याख्यातयोरेवमुक्तेन प्रकारेणान्तरं परस्परवैलक्षण्यं जाड्यचैतन्यविकारित्वनिर्विकारत्वादिरूपं ज्ञानचक्षुषा शास्त्राचार्योपदेशजनितात्मज्ञानरूपेण चक्षुषा ये विदुर्भूतप्रकृतिमोक्षं च भूतानां सर्वेषां प्रकृतिरविद्या मायाख्या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनं च ये विदुर्जानन्ति यान्ति ते परं परमार्थात्मवस्तुस्वरूपं कैवल्यं, न पुनर्देहमाददत इत्यर्थः । तदेवममानित्वादिसाधननिष्ठस्य क्षेत्रक्षेत्रज्ञविवेकविज्ञानवतः सर्वानर्थनिवृत्त्या परमपुरुषार्थसिद्धिरिति सिद्धम् ॥ ३४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-
सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां क्षेत्रक्षेत्र-
ज्ञविवेको नाम त्रयोदशोऽध्यायः ॥ १३ ॥
श्री० टी०-अध्यायार्थमुपसंहरति-क्षेत्रक्षेत्रज्ञयोरिति । एवमुक्तप्रकारेण क्षेत्रक्षेत्रज्ञयोरन्तरं भेदं विवेकज्ञानलक्षणेन चक्षुषा ये विदुः । तथा चेयमुक्ता भूतानां प्रकृतिस्तस्याः सकाशान्मोक्ष मोक्षोपायं ध्यानादिकं च ये विदुस्ते परं पदं यान्ति ॥ ३४ ॥
विविक्त्तौ येन तत्त्वेन मिश्रौ प्रकृतिपूरुषौ । |
इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां प्रकृतिपुरुष.
विवेकयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥