पेण च, सौरं तेज इवाऽऽदर्शसूर्यकान्तादौ । अव्यवहितमेव वस्तुतो भ्रान्त्या व्यवहितमिव सर्वभ्रमकारणाज्ञाननिवृत्त्या प्राप्यत इवेत्यर्थः ॥ १७ ॥
श्री0 टी0-किं च-ज्योतिषामिति । ज्योतिषां चन्द्रादित्यादीनामपि तज्ज्योतिः प्रकाशकं तत् । " येन सूर्यस्तपति तेजसेद्धः "।
"न तत्र सूर्यो भाति न चन्द्रतारकं |
अत एव तमसोऽज्ञानात्परं तेनासंस्पृष्टमुच्यते । आदित्यवर्ण तमसः परस्तात् " इत्यादिश्रुतेः । ज्ञानं च तदेव बुद्धिवृत्तावभिव्यक्तम् । तदेव रूपाद्याकारेण ज्ञेयं च, ज्ञानेन गम्यं च, "अमानित्वमदम्भित्वम्" इत्यादिलक्षणेन पूर्वोक्तेन ज्ञानसाधनेन प्राप्यमित्यर्थः । ज्ञानगम्यं विशिनष्टि सर्वस्य प्राणिमात्रस्य हृदि विष्ठितं विशेषेणाप्रच्युतस्वरूपेण नियन्तृतया स्थितम् । धिष्ठितमिति पाठेऽधिष्ठाय स्थितमित्यर्थः ॥ १७ ॥
म०टी०-उक्तं क्षेत्रादिकमधिकारिणं फलं च वदन्नुपसंहरति-
इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः ॥ |
इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानममानित्वादितत्त्वज्ञानार्थदर्शनान्तं ज्ञेयं चानादिमत्परं ब्रह्म[१] विष्ठितमित्यन्तं श्रुतिभ्यः स्मृतिभ्यश्चाऽऽकृष्य त्रयमपि मन्दबुद्धयनुग्रहाय मया संक्षेपेणोक्तम् । एतावानेव हि सर्वो वेदार्थो गीतार्थश्च । अस्मिंश्च पूर्वाध्यायोक्तलक्षणो मद्भक्त एवाधिकारीत्याह-मद्भक्तो मयि भगवति वासुदेवे परमगुरौ समर्पितसर्वात्मभावो मदेकशरणः स एतद्यथोक्तं क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्भावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्ष प्राप्तुं योग्यो भवति ।
" यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । |
तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तेत तुच्छविषयभोगस्पृहां हित्येत्यभिप्रायः ॥ १८ ॥
- ↑ क. ग, घ, छ, ज, ज. "म धिष्टि।