धानाः सन्तो मत्परमा अहं भगवानक्षरात्मा वासुदेव एव परमः प्राप्तव्यो निरतिशया गतिर्येषां ते मत्परमा भक्ता मां निरुपाधिकं ब्रह्म भजमानास्तेऽतीव मे प्रियाः ।
"प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः" इति पूर्वसूचितस्यायमुपसंहारः । यस्मा [१]द्धर्मामृतमिदं श्रद्धयाऽनुतिष्ठन्भगवतो विष्णोः परमेश्वरस्यातीव प्रियो भवति तस्मादिदं
ज्ञानवतः स्वभावसिद्धतया लक्षणमपि मुमुक्षुणाऽऽत्मतत्त्वजिज्ञासुनाऽऽत्मज्ञानोपायत्वेन
यत्नादनुष्ठेयं विष्णोः परमं पदं जिगमिषुणेति वाक्यार्थः । तदेवं सोपाधिकब्रह्मामिध्यानपरिपाकान्निरुपाधिकं ब्रह्मानुसंदधानस्याद्वेष्ट्रवादिधर्मविशिष्टस्य मुख्यस्याधिकारिणः श्रवणमनननिदिध्यासनान्यावर्तयतो वेदान्तवाक्यार्थतत्त्वसाक्षात्कारसंभवात्ततो
मुक्त्युपपत्तेर्मुक्तिहेतुवेदान्तमहावाक्यार्थान्वययोग्यस्तत्पदार्थोऽनुसंधेय इति मध्यमेन षट्केन सिद्धम् ॥ २० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-
सरस्वती विरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां भक्ति-
योगो नाम द्वादशोऽध्यायः ॥ १२ ॥
उपासनाकाण्डं द्वितीयं तत्पदार्थप्रतिपादनप्रधानं समाप्तम् ॥
श्री०टी०-उक्तं धर्मजातं सफलमुपसंहरति-ये त्विति । यथोक्तमुक्तप्रकार धर्म एवामृतममृतत्वसाधनत्वात् । धर्म्यामृतमिदमिति केचित्पठन्ति । तद्य उपासतेऽनुतिष्ठन्ति श्रद्धा कुर्वन्तो मत्परमाश्च सन्तो मद्भक्तास्तेऽतीव मे प्रिया इति ॥ २० ॥
दुःखमव्यक्तवर्त्मैतद्बहुविघ्नमतो बुधः । |
इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां भक्ति-
योगो नाम द्वादशोऽध्यायः ॥ १२ ॥
अथ त्रयोदशोऽध्यायः
म०टी०-ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं |