म० टी०-साक्षादीश्वरस्यापि विभूतिमध्ये पाठस्तेन रूपेण चिन्तनार्थ इति प्रागेवोक्तम् । वृष्णीनां मध्ये वासुदेवो वसुदेवपुत्रत्वेन प्रसिद्धस्त्वदुपदेष्टाऽयमहम् । तथा
पाण्डवानां मध्ये धनंजयस्त्वमेवाहम् । मुनीनां मननशीलानामपि मध्ये वेदव्यासोऽहम् । कवीनां क्रान्तदर्शिनां सूक्ष्मार्थविवेकिनां मध्य उशना कविरिति ख्यातः
शुकोऽहम् ॥ ३७॥
श्री०टी०-वृष्णीनामिति । वासुदेवो योऽहं त्वामुपदिशामि । धनंजयस्त्वमेव मद्विभूतिः । मुनीनां वेदार्थमननशीलानां वेदव्यासोऽहमस्मि । कवी[१]नां क्रान्तदर्शिना मध्य उशना नाम कविः शुक्रः ॥ ३७ ॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ॥ |
म०टी०-दमयतामदान्तानुत्पथान्पथि प्रवर्तयतामुत्पथप्रवृत्तौ निग्रहहेतुर्दण्डोऽहमस्मि । जिगीषतां जेतुमिच्छतां नीतिर्न्यायो जयोपायस्य प्रकाशकोऽहमस्मि । गुह्यानां गोप्यानां गोपनहेतुमौंनं वाचंयमत्वमहमस्मि । नहि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । गुह्यानां गोप्यानां मध्ये ससंन्यासश्रवणमननपूर्वकमात्मनो निदिध्यासनलक्षणं मौनं वाऽहमस्मि । ज्ञानवतां ज्ञानिनां यच्छ्वणमनननिदिध्यासनपरिपाकप्रभवमद्वितीयात्मसाक्षात्काररूपं सर्वाज्ञानविरोधि ज्ञानं तदहमस्मि ॥ ३८॥
श्री० टी०-दण्ड इति । दमयतां दमनकर्तृणां संबन्धी दण्डोऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्विभूतिः । जेतुमिच्छता संबन्धिनी सामाद्युपायरूपा नीतिरस्मि । गुह्यानां गोप्यानां गोपनहेतुर्मौनमवचनमहमस्मि । न हि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । ज्ञानवतां तत्त्वज्ञानिनां यज्ज्ञानं तदहम् ॥ ३८ ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ॥ |
म०टी०-यदपि च सर्वभूतानां प्ररोहकारणं बीजं तन्मायोपाधिकं चैतन्यमहमेव हेऽर्जुन । मया विना यत्स्याद्भवेञ्चरमचरं वा भूतं वस्तु तन्नास्त्येव यतः सर्वं मत्कार्यमेवेत्यर्थः ॥ ३९॥
श्री०टी०-यदिति । यदपि च सर्वभूतानां बीजं प्ररोहकारणं तदहम् । तत्र हेतुः-मया विना यत्स्याद्भवेत्तञ्चरमचरं वा भूतं नास्त्येवेति ॥ ३९ ॥
'म०. टी०.---प्रकरणार्थमुपसंहरन्विभूतिं संक्षिपति-
- ↑ क. झ. ज. नां काव्यद।