सूक्ष्मादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात् । सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं " फलमत उपपत्तेः” इति न्यायात् । न चिन्तयितुं शक्यमपरिमितमहिमत्वेन रूपं यस्य तम् । आदित्यस्येव सकलजगदवभासको वर्णः प्रकाशो यस्य तं सर्वस्य जगतोऽवभासकमिति यावत् । अत एव तमसः परस्तात्तमसो मोहान्धकारादज्ञानलक्षणात्परस्तात्प्रकाशरूपत्वेन तमोविरोधिनमिति यावत् । अनुस्मरेचिन्तयेद्यः कश्चिदपि स तं यातीति पूर्वेणैव संबन्धः । स तं परं पुरुषमुपैति दिव्यमिति परेण वा संबन्धः ॥९॥
म० टी०-कदा तदनुस्मरणे प्रयत्नातिरेकोऽभ्यर्थ्यते तदाह-
प्रयाणकाले मनसाऽचलेन |
प्रयाणकालेऽन्तकालेऽचलेनैकाग्रेण मनसा तं पुरुषं, योऽनुस्मरेदित्यनुवर्तते । कीदृशः, भक्त्या परमेश्वरविषयेण परमेण प्रेम्णा युक्तः । योगस्य समाधेर्बलेन तज्जनितसंस्कारसमूहेन व्युत्थानसंस्कारविरोधिना च युक्तः । एवं प्रथमं हृदयपुण्डरीके वशीकृत्य तत ऊर्ध्वगामिन्या सुषुम्नया नाड्या गुरूपदिष्टमार्गेण भूमिजयक्रमेण ध्रुवोर्मध्य आज्ञाचक्रे प्राणमावेश्य स्थापयित्वा सम्यगप्रमत्तो ब्रह्मरन्ध्रा[१]दुत्क्राम्य स एवमुपासकस्तं कर्वि पुराणमनुशासितारमित्यादिलक्षणं परं पुरुषं दिव्यं द्योतनात्मकमुपैति प्रतिपद्यते ॥१०॥
श्री० टी०-पुनरप्यनुचिन्तनीयं पुरुषं विशिनष्टि-कविमितिद्वाभ्याम्---- कविं सर्वज्ञं[२] पुराणमनादिसिद्धम् , अनुशासितारं नियन्तारम् , अणोः सूक्ष्मादप्यणीयांसमतिसू[३]क्ष्म सर्वस्य धातारं पोषकम् । अपरिमितमहिमत्वादचिन्त्य[४]रूपं मलीमसयोर्नोबुद्ध्योरगोचरम् । आदित्यवत्वपरप्रकाशात्मको वर्णः स्वरूपं यस्य तम् । तमसः प्रकृतेः परस्ताद्वर्तमानम् । " वेदाहमेतं पुरुषं महान्तम् " । " आदित्यवर्ण तमसः परस्तात् " इति श्रुतेः[५] । एवंभूतं पुरुषमन्तकाले भक्तियुक्तो निश्चलेन[६] मनसा योऽनुस्रेत् । मनोनैश्चल्ये हेतुः-योगबलेन सम्यक्सुषुम्नामार्गेण भ्रुवोर्मध्ये प्राणमावेश्येति । स तं परं पुरुषं[७] दिव्यं द्योतनात्मकं प्राप्नोति ॥९॥ १० ॥
- इयं श्रुतिः क.पुस्तक एव दृश्यते ।