म० टी०-तदेवं विद्वदविदुषोः कर्मानुष्ठानसाम्येन विद्वानविदुषो बुद्धिभेदं न
कुर्यादित्युक्तमुपसंहरति-
प्रकृतेर्गुणसंमूढाः सजन्ते गुणकर्मसु ॥ |
प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैदेहादिभिर्विकारैः सम्यङ्मूढाः स्वरूपास्फुरणेन तानेवाऽऽत्मत्वेन मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कर्म कुर्मस्तत्फलायेति दृढतरामात्मीयवृद्धिं कुर्वन्ति ये तान्कर्मसङ्गिनोऽकृत्स्नविदोऽनात्माभिमानिनो मन्दानशुद्धचित्तत्वेन ज्ञानाधिकारमप्राप्तान्कृत्स्नवित्परिपूर्णात्मवित्स्वयं न विचालयेत्कर्मश्रद्धातो न प्रच्यावयेदित्यर्थः। ये त्वमन्दाः शुद्धान्तःकरणास्ते स्वयमेव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्यभिप्रायः । कृत्स्नाकृत्स्नशब्दावात्मानात्मपरतया श्रुत्यानुसारेण वार्तिककृद्भि- र्व्याख्यातौ-
" सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् । |
अनात्मनः सावयवत्वादनेकधर्मवत्वाच्च केनचिद्धर्मेण केनचिदवयवेन वा विशिष्टे तस्मिन्नेकस्मिन्घटादौ ज्ञातेऽपि धर्मान्तरेणावयवान्तरेण वा विशिष्टः स एवाज्ञातोऽवशिष्यते । तदन्यश्च पटादिरज्ञातोऽवशिष्यत एव । तथा तस्मिन्घटादावज्ञातेऽपि पटादिर्ज्ञातः स्यादिति तज्ज्ञानेऽपि तस्यान्यस्य चाज्ञानात्तदज्ञानेऽप्यन्यज्ञानाच्च सोऽ कृत्स्न उच्यते । कृत्स्नस्त्वंद्वय आत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्वयार्थः ॥ २९॥
श्री०टी०-न बुद्धिभेदं जनयेदित्युक्तमुपसंहरति-प्रकृतेरिति । ये प्रकृतेगुणैः सत्त्वादिभिः संमूढाः सन्तो गुणेष्विन्द्रियेषु तत्कर्मसु च सज्जन्ते[१] वयं कुर्म इति तानकृत्स्नविदो मन्दमतीकृत्स्नवित्सर्वज्ञो न विचालयेत् ॥ २९ ॥
म. टी०-एवं कर्मानुष्ठानसाम्येऽप्यज्ञविज्ञयोः कर्तृत्वाभिनिवेशतदभावाभ्यां विशेष उक्तः । इदानीमज्ञस्यापि मुमुक्षोरमुमुक्ष्वपेक्षया भगवदर्पणं फलाभिसंध्यभावं च विशेषं वदन्नज्ञतयाऽर्जुनस्य कर्माधिकारं द्रढयति-
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ॥ |
- ↑ ख. ग. घ. ङ. छ. ज. अ.न्ते ता।