सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ श्रीमच्छकरदिग्विजयः । [ सर्गः १५] षशाब्दोऽपि तत्परः ॥ २५५ ॥ अरुणः सूर्यभानू च चन्द्रस्तपन एव च ॥ मित्रो हिरण्यरेताश्च रव्यर्यमगभस्तयः ॥ ५६ ॥ विष्णुर्दिवाकरश्चेति संप्रोक्तादित्यमध्यगः ॥ विष्णुरुक्तस्ततो विष्णुः स एवास्ति न चापरः ॥ ५७ ॥ आदित्यानामहं विष्णुज्य तिषां रविरंशुमान् ॥ इति कृष्णेन संप्रोक्तं किंच ब्रह्मादिका विभोः ॥ ५८ ॥ सूर्या देव समुत्पन्नास्तस्मात्सर्वेर्मुमुक्षुभिः । अयमेव समाराध्य इति प्रोक्तः परो गुरुः ॥५९॥ उवाच शृणु भा मूढ दवाकर वचा मम।। चन्द्रमा मनसो जातः सूर्यस्तस्य तु चक्षुष ॥ २६० ॥ इति वेदेन जन्यत्वं यस्योक्तं तदनित्यता ॥ तर्कसिद्धान्ततोऽनित्ये ब्रह्मता कथमागता ॥ ६१ ॥ सूर्यनिष्ठपरब्रह्मबोधिकाः श्रुतयस्तु ताः । जगदीशा ज्ञया सूर्यो भ्रमतीति श्रुतं स्फुटम् ॥ ६२ । भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादमिश्चेन्द्रश्च मृत्युर्वावति पञ्चमः ॥ ६३ ॥ न यत्र सूर्यो भाति न चन्द्र तारकं नेमा विद्युतो भान्ति कुतोऽयमभिः ॥ तमेव भान्तमनुभान्ति सर्वे यस्य भासा सर्वमिदं विभाति ।। ६४ । इतिश्रुत्या परेशस्य भासा भानं प्रकीर्तितम् ।। सूर्यादेस्तु तथा प्रोक्ता ज्योतिः शास्त्रेऽप्यनित्यता ।। २६५।। सृष्टि: सरोजासनवासरादौ वियञ्च राणां विलयस्तदन्ते । आद्यन्तकालः स च कल्प उक्तः कल्पद्वयं तद्दिवसं विरिवे ॥६६॥ एवंभूतस्य सूर्यस्य जनकत्वं त्वंयेरितम् । ब्रह्मादिकस्य तस्मात्ते विद्या त्वत्यन्तशो भना ॥ ६७ ॥ तस्मादेकः पैरात्मैव सूर्यस्थो निर्गमैः स्तुत: । ततः पाँखण्डचिह्नानि विहायाऽऽचारतत्पराः ॥ ६८ ॥ शुद्धाद्वैतस्य बोवेन मुक्ता भवथ भो द्विजाः ॥ इत्यु क्तास्ते गुरुं नत्वा सर्वे तच्छिष्यतां गताः ॥ ६९ ॥ ततस्तेत्राऽऽगतर्विप्रैः सर्वेरापि यतीश्धरः ॥ सभाजितो ययौ तस्माद्वायोराशां जयेच्छया ॥ २७० ॥ शिष्येषु त्रिस इन्नेषु केचित्तं शङ्कपूरणैः ॥ केचिद्वाद्यविशेषैश्च केचित्तालैः शुभोक्तिभिः ॥ ७१ ॥ केविद्धण्टानिनादैश्च करतालैश्च केचन । केचिद्यजनवातैश्च पिच्छवातैश्ध केचन ॥ ७२ ॥ समर्चयन्ति संन्यस्तसुखदुःखं यतीश्वरम् ॥ तत्तद्देशागता विपा दृष्टा तच्छिष्यतां गताः ॥ ७३ ॥ एवं प्रतिदिनं गत्वा तत्र तत्राऽऽगतान्द्विजान् । कुमत स्थान्परानन्दभाजः कृत्वा शुभोक्तिभिः ॥ ७४ ॥ पुरं गणवरं प्राप गणपत्याश्रमं शुभम् ॥ तत्र नद्यां हि कौमुद्यां स्नात्वा विन्नेशमव्ययम् ॥२७५॥ संपूज्य यतिरॉट्तत्र मासमास सहानुगैः । पद्मपादमुखाः शिष्याः पञ्चपूजापरायणाः ।। ७६ । दिग्गजा इात वरूयाताः परावद्याप्रभांदनः ॥ परपक्षक्षयाद्युक्तवचसः प्राढवादिनः ।। ७७ ।। तद्वाक्यं शिरसाऽऽगृह्य शिष्योऽन्यः पुरजिद्वलः । नियतः सवैशिष्याणां पाकादिषु च कर्मसु ।। ७८ । समर्षयन्गुरुं भिक्षां दत्त्वा तस्मै परात्मने । पद्मपादस्तथाऽन्येषां १ घ. त्वयोदित'। २ घ. परो ह्यात्मा सू'। ३ ग. घ. "गमे स्तु। ४ ग. घ. "पाषण्ड'। ५ क ग. ‘स्तत्र ग'। ६ ग. घ. शुकोक्तिभि: । ७ घ. 'राडत्र । ८ क. "क्षहरोद्यु