पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ श्रीमच्छकरदिग्विजयः । स हि युक्तिभरैर्विधाय शाक्ता न्प्रति वाग्व्याहरणेऽपि तानशक्तान् । द्विजातिबहिष्कृताननायन करोलोकहिताय कर्मसेतुम् ॥ ३ ॥ [ सर्गः १५ ] धतो वै' । मुक्ता भविष्यथ कदाऽपि न चान्यथा हीत्युक्ता बभूवुराखिला यमिनः सुशिष्याः ॥ ४४ ॥ वामाचाराः समेत्याहुस्ततो ज्ञानवतां वरम् ।। संवित्स्वरूपम ज्ञात्वा वृथावेषधरो भवान् ।। ४५ । निरतोऽद्वैतविज्ञाने वन्ध्यापुत्रसमे यतः ।। लयेऽपि भेदसतातोऽद्वैतं नैव कदाचन ॥ ४६ । ईश्वरेऽपि विमशैोंऽयं पृथगेवास्ति सर्वदा ॥ यया विना परेशस्य क्रिया स्वल्पाऽपि दुर्लभा ॥ ४७ ॥ सा शक्तिरस्तीह सदा स्वतत्रा जगद्विधात्री च शिवस्य बीजम् । विद्यात्मिका तत्र रातिं गतानां मुक्तिः करस्था किल नेतरेषाम् ।। ४८ । विमर्शसंज्ञमव्यक्तं ब्रह्म भृग्वादयो जगुः । तत्परास्तत्व तोऽस्त्यन्यत्ततो यद्य तु तद्वशाम् ।। ४९ । तस्याः सेवानिरतमनसां नो निषेधेऽधिकारो नास्त्येवैवं विहितकरणे सिद्धतामागतानाम्। निस्त्रैगुण्ये पथि विचरतां को विविः को निषेधो भृग्वादीनामलमनसां नः प्रवृत्तिर्हि मानम्।॥५०॥ तस्माद्भवन्तोऽपि विहाय सर्वे विद्यां परामाश्रयताऽऽत्ममुक्त्यै । इत्युक्त आचार्य उवाच मैवं यत्रेति' वेदेन हेि बोधकाले ॥ ५१ ॥ आत्मातिरिक्तस्य निषेध एव कृतस्तदानीं न विमर्शदेशः । न ह्यस्ति सत्यत्वमनात्मनो नो मुक्तिस्त्वनित्यप्रकृतेरुपास्त्या ।। ५२ । मायाभिरिन्द्रः पुरुरूप ईयत इत्येवमस्या बहुरूपता श्रुता। तस्माचिदात्मा प्रकृतेः परः प्रभुयोऽस्ति मोक्षाय मुमुक्षुभिर्मुदा ।। ५३ ॥ ईशानो भूतभव्यस्येत्यादिकश्रुतिबोधिते । अकिंचि त्कर इत्युक्तमव्यादेव न चान्यथा ॥ ५४ ॥ कलञ्चादनशीलानां सुरापानादि कुर्व ताम् ॥ ब्राह्मण्यं नास्ति युष्माकं कुरुतातो विनिष्कृतिम् ॥ ५५ ॥ भृगुणा तार्डतो विष्णुः कुम्भजेन सरित्पतिः ॥ पीतः कथं न भवतामस्ति शक्तिस्तथाविधा ॥ ५६ ॥ तस्माद्विमृढतां त्यक्त्वा भ्रष्टैब्रह्मणजातितः ॥ प्रायश्चित्तमनुष्यमित्युक्तास्ते परं गुरुम् ॥ ५७ ॥ नत्वा प्रायश्चित्तमेवाऽऽशु कृत्वा शुद्धाद्वैत संरताः साधुवृत्ताः । सत्क र्भस्था: पञ्चपूजापरास्ते जाताः शिप्याः सर्वपापैर्विहीनाः' ॥ ५८ ॥ २ ॥ एतत्सर्वे संग्रहेण दर्शयति । स हि श्रीशंकरस्ताञ्शाक्तान्प्रति वाग्व्याहरणेऽपि युक्त्यतिशयैरशक्तान्विधाय कर्मसेतुमकरोत् । तान्विशिनष्टि । द्विजेति । आचार्थस्य विजयोऽपि न स्वरूयात्याद्यर्थमित्याह । लोकहितायेति ॥ ३ ॥

  • घ. द्राक् । २ क. 'शों वै पृ। ३ ग. 'ति श्रुत्या हि । ४ क. 'र्वसंदेही ।