पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छधकरदिग्विजयः । शुश्राव तं बन्धुजनः सशिष्यं स्वमातुलागारमुपेयिवांसम् । आगत्य दृष्टा चिरमागतं तं जहर्ष हर्षातिशयेन साश्रुः ॥ ७५ ॥ रुरोद कश्चिन्मुमुदेऽत्र कश्चि जहास पूर्वाचरितं बभाषे । कश्चित्प्रमोदातिशयेन किंचि द्वचः स्वलद्रीः प्रणनाम कश्चित् ॥ ७६ ॥ उऊचेऽथ तं ज्ञातिजनः प्रमोदी दृष्टा चिरायाक्षिपथं गतोऽभूः ॥ दिदृक्षते त्वां जनताऽतिहाद त्तथाऽपि शक्रोषि न वीक्षणाय ॥ ७७ ॥ पुत्राः समित्रा न न बन्धुवर्ग न राजबाधा न च चोरभीतिः ॥ कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ।। ७८ ।। शास्वोपशाखाश्चितमेव वृक्षं बाधन्त आगत्य न तद्वहीनम् ॥ यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ।॥ ७९ ॥ [सर्गः १४ ] आख्यानकी वृत्तम् ।। ७५ ॥ ७६ ॥ -[ शुश्रावेत । बन्धुजनः पूवाश्रमसंबन्धि जनः ] ।। ७५ ।। अथानन्तरं तं दृष्ट्रा पमोदी ज्ञातिजन ऊचे । यतश्चिरकालात्त्वमक्षिमार्ग प्राप्तोऽ स्यतो जनताऽतिन्नेहात्त्वां दिदृक्षते तथाऽपि त्वं वीक्षणाय न शक्रोषि । तथाच नेह बाधा तव नास्तीत्यर्थः ।। ७७ ।। किंच सर्वबाधाविनिर्मुक्तत्वात्कृतार्थतामूलपदं यतित्वमेवेत्याह । पुत्रा इति । तेषा मभावे तत्केंता बाधा नास्तीत्यर्थः । धनिनामेव बाधा न तु निष्किश्चनानामिति स दृष्टान्तमाह । पुष्पवन्तं फॉलत महान्तम् । वृक्षामात परणान्वय ॥ ७८ ॥ शाखोपशाखाभिराश्वतं व्याप्तमलंकृतं वा । तथा वा तथैव ।॥७९॥ [ शाखेति । पक्ष्यादय इति शेषः ] ।। ७९ ।। १ ग. 'स्कृतबा'।