पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । संचित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ॥ स दक्षिणे दोष्णि मन्थ वहिं ददाह ता तन्न च संयतात्मा || ४८ ।। न याचिता वह्निमदुर्यदस्मै शशाप तान्स्वीयजनान्सरोषः इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच भिक्षा ।। ४९ ॥ यहापकण्ठषु च वः श्मशान मद्यप्रभृत्यांस्त्वति ताञ्शशाप ।। अद्यापि तद्देशभवा न वेद मधीयते नो यमिनां च भिक्षा ॥ ५० ॥ तदाप्रभृत्येव गृहोपकण्ठे ष्वासीच्छूमशानं किल हन्त तेषाम् ।। महत्सु धीपूर्वकृतापराधो भवेत्पुनः कस्य सुग्वाय लोके ॥ ५१ ॥ ति खेद आश्चर्ये वा । अनि नाऽऽदत्त। अथानन्तरं कोपव्याप्तान्तःकरणोऽसौ निर्म मेन्द्रः श्रीशंकरस्तान्सवान्बन्धृनशपत् ॥ ४७ ॥ गृहसमीपे सुशुष्कवन्ति काष्ठानि संचित्य धृतं जलपात्रं येन स मातुर्युक्षिणे बाहौ वहिं ममन्थ तेन च तां मातरं संयतात्मा ददाह । उपजातिवृत्तम् ॥ ४८ ॥ अशपांदित्यत् विवृणोति । यद्यस्माद्याचिता वह्निमस्म नादुस्तस्मात्सरषस्तान्स्वा यजनाञ्शशाप । इतः परं ते द्विजा वेदबहिष्कृता भवन्तु यतीनां भिक्षा चैषां गृहेषु न भवेत् । उपेन्द्रवज्रा वृत्तम् ॥ ४९ ॥ वो युष्माकं गृहसमीपे चाद्यप्रभृति श्मशानमस्त्वित्येवं ताञ्शशाप । ग्रन्थकृदाह । अद्यापि तद्देशभवा वेदाध्ययनं न कुर्वन्ति । यतीनां भिक्षा च नास्ति । उपजात वृत्तम् ।। ५ अभव विस्मयो न काय यतो महत्सु बुद्धिपूर्वकं कृतोऽपराधो लोके पुनः कस्यापि सुखाय न भवति || ५१ ॥ ४९७ १ क. 'हे न ।