पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताङ्घ्रपद्मम् ।। अभिवीजितमादरेण नीला वसुधाभ्यां चलमानचामराभ्याम् ॥ ३९ ॥ विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन । धृतमृतिभिरस्रदेवताभिः परितः पञ्चभिरश्वितोपकण्ठम् ॥ ४० ॥ महनायतमालकमलाङ्ग मुकुटीरत्नचयं महार्हयन्तम् ॥ शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥ ४१ ॥ तत्तादृशं निजसुतोदितमम्बुजाक्षे चित्ते दधार मृतिकाल उपागतेऽपि ।। चित्तेन कंजनयनं हृदि भावयन्ती तत्याज देहमबला किल योगिवत्सा ।। ४२ ।। ४९५ माधवं विशिनष्टि । भुजगाधिपस्य शेषस्य भोगात्मकं देहात्मकतल्पं शय्यां भज तीति तथा तं कमलाया लक्ष्म्या अङ्कस्थल उत्सङ्गस्थले कल्पिते स्थापिते चरणक मले येन तं नीलावसुधांख्याभ्यां स्वभार्याभ्यां चलमानाभ्यां चामराभ्यां वीजितम् । वसन्तमालिका वृत्तम् ॥ ३९ || [ आदरेण प्रेम्णा ] ।। ३९ ।। विहिताञ्जलिना विनतानन्द वृता गरुडेन रथेनाग्रतो निषेव्यमाणं धृतमृर्तिभिः पञ्चभिः शङ्खचक्रगदाधनुष्खडाख्यास्रदेवताभिः परितोऽश्वितोपकण्ठं स्फुरत्समी पम् ॥ ४० । [ विनतेति । विनताया अमृतमदानद्वारा कद्रदास्यात्सकाशान्नि माँचनेन परमहर्षकव ] ।। ४० ।। पूजनीयं तमालवत्कोमलमङ्ग यस्य मुकुटीकृतं रत्नसमुदायं महार्हयन्तमत एव शिशिरेतरभानुरुष्णगुः सूर्यस्तेन शीलितायं शोभिताग्रमिन्द्रनीलमणिभूधरं हस न्तम् ।। ४१ । [ महार्हयन्तं स्वमुकुटस्थितत्वादतुलशोभाशालिनं. कलयन्तमिति यावत् ] ।। ४१ ।। तत्तादृशं निजसुतोदितं कमलनयनं माधवं चित्ते दधार । मृतिकाल उपागते चित्तेन तं दृदि भावयन्ती साऽबला योगिवद्देहं तत्याज । वसन्ततिलका वृत्तम् ॥ ४२ ॥ १ ग. 'धाभ्या स्व' ।