पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । प्रारब्धकर्मपरिपाकवशात्पुनस्त्वं वाचस्पतित्वमधिगम्य वसुंधरायाम् ॥ भव्यां विधास्यसितमां मम भाष्यटीका माभूतसंलयमधिक्षिति सा च जीयात् ॥ ७३ ॥ इत्येवमुक्त्वाऽथ यतीश्वरोऽसा वानन्दगिर्यादिमुनीन्स हुत्वा । कुरुध्वमद्वैतपररान्निबन्धा नित्यन्वशान्निर्ममसार्वभौमः ॥ ७४ ।। ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दो रानन्दाचलमुस्वरा महानुभावाः ।। आतेनुर्जगति यथास्वमात्मतत्वा म्भोजाकन्विशादतरान्बहून्निबन्धान् ॥ १३८७ ॥ इति श्रीमाधवीये तद्वात्तिकान्तप्रवर्तनः ॥ संक्षेपशंकरजये पृर्णः सर्गस्रयोदशः ॥ १३ ॥ ४८३ एवं तद्दत्तशापस्य सार्थक्यं मदश्र्य सूत्रभाष्यवृत्तकरणसंकल्पस्यापि तत्त्वमाह । प्रारब्धेति । भूमौ वाचस्पतित्वं प्राप्य भव्यां मम भाप्यटकां सम्यग्विधास्यसि सनन्दनकृतटीकासाम्यं वारयति । प्रलयपर्यन्तं क्षिता सा च जीवनं प्रामुयादिति वरप्रदानम् || ७३ ।। इत्येवं सुरेश्वरमुक्त्वाऽथानन्तरमसौ यतीश्वर आनन्दगिर्यादिमुनीनाहूयाद्वैतपरा न्निबन्धान्कुरुध्वमिति स निर्ममचक्रवत्र्याज्ञप्तवान् । उपजातिवृत्तम् ॥ ७४ ॥ ते सर्वेऽप्यानन्दगिरिमुख्या महानुभावा देशिकेन्दोरनुमतिमाप्य स्वमात्मानमनाति क्रम्य यथामत्यात्मतत्त्वाम्भोजाकन्विशदतरान्निबन्वानासमन्ताद्विस्तारितवन्तः । प्रह र्पणी वृत्तम् ॥ १३८७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यद्त्तवं शावतंसरामकुमारसूनुवनपतिसृरकृते श्रशंकराचार्थविजयङि ण्डिम त्रयोदशः सर्गः ॥ ५३ ॥