पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० श्रीमच्छकरदिग्विजयः । [सर्गः १३] इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके नो संभाव्यहात्र वार्त्तिकमिति प्रौढं शुग िशनैः । धीराम्रयः शमयन्विवेकपयसा देवेश्वरेण त्रयी भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभून्मुनिः ॥ ६३ ॥ भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ॥ सिद्धान्तयुक्तिविनिवेशिततत्स्वरुपं दृष्टाऽभिनन्द्य परितोषवशादवोचत् ॥ ६४ ॥ बद्ध आदरो यैस्तथाभूतबुधपरिषच्छेमुष्यां संनिषण्णाम् । अद्वैतबद्धादरा या बुधसमु दायबुद्विस्तस्यां सम्यास्थितामिति वा । अर्वाचीनानां दुर्वादिनां गर्वलक्षणस्यानलस्य विपुलतरज्वालालक्षणेया मालया विपुलतरया ज्वालामालयेति वा । अवलीढामास्वा दितां श्रद्धां सूक्तामृतौधैः सिक्त्वाऽऽहहाद्य सद्यः परिहसञ्जीवयसि । ततो रणतर णावधानसदृशायामव भूतस्य सदुरस्तव सवाया का वा पटुः स्यात् । स्रग्वरा वृत्तम् । ॥ ६२ ॥ [ सूक्तेति । सुष्ठ सूत्रभाष्यादिरूपाणि यान्युक्तानि भाषणानि तान्येवा मृत॥नि तेषामोघा: संघासैरित्यर्थः । सिक्त्वा संसिच्य । हे भगवन्भाष्यकार । त्वमद्य प्रकारे विषये । सेवापटुः को वा स्यादित्यहं तु नैव जान इति योजना ] ।। ६२ । । इत्युक्त्वा सुरेश्वरगुरावुपरते सति । अहहेत्यत्यन्तखेदे । तेन सुरेश्वरेणैवात्र शारी रके व॥र्तिकं नो संभावति औ शोकाभिं धराय: श्रीशकरो विवेकपयसा शनै: शमयन्वेदत्रयीभाष्ये सुरेश्वरेण वार्तिकद्वयं कारयितुं स मुनिर्बद्धादरोऽभूत् । शार्दूल विक्रीडितं वृत्तम् ॥ ६३ ॥ [ त्रयीति । तैत्तिरीयबृहदारण्यकवृसिंहपूर्वतापिनीयो पनिषत्रयीभाष्यपरीत्यर्थः । स मुनिः श्रीशंकराचार्थः । वार्तिकत्रयमित्यार्थिकम् । तथा। वार्तिकेति । पश्चीकरणवार्तिकं तथा दक्षिणामर्तिस्तोत्रवार्तिकं चेति वार्तिकद्वय मित्यर्थः । एवं च वार्तिकपश्चकमिति यावत् ] ॥ ६३ ।। भावानुसारिभिमृदुभिर्वाक्यैर्विनिवशितोऽर्थो यत्र । स्वयैः पदैर्निराकृत: पूर्वपक्षो यन्त्र । सिद्धान्(युक्तिभिर्विनिवेशितं तस्य सिद्धान्तस्य स्वरुपं यत्र । तं तदीयं ग्रन्थं छाऽभिनन्द्य स श्रीशंकर: परितोषवशाद्वोचत् । वसन्ततिलका वृत्तम् ।। ६४ ।।

  • मृले स्याद्रणतरणविधावित्यत्र स्यादृणतरणविधाविति पाठानुरोधेनेदम् ।