पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० श्रीमच्छकरदिग्विजयः । सनन्दनो वाक्यमुदाजहार । आचार्य हस्तामलकोऽपि कल्पो भवत्कृतौ वार्तिकमेष कर्तुम् ॥ २२ ॥ यतः करस्थामलकाविशेषं जानाति सिद्धान्तमसावशेषम् । अतोऽह्यमुष्मै भवतैव पूर्व मदायि हस्तामलकाभिधानम् ॥ २३ ॥ वाणगा समाकण्य सन्नन्दनस्य सामिस्मितं भाष्यकृदावभाषे । नैपुण्यमन्यादृशमस्य किंतु समाहितत्वान्न बहि: प्रवृत्तिः ॥ २४ ॥ अयं तु बाल्ये न पपाठ पित्रा नियोजितः सादरमक्षराणि । न चोपनीतोऽपि गुरोः सकाशा दध्यैष्ठ वेदान्परमार्थनिष्ठः ।। २५ ।। [ सर्गः १३] अत्रान्तरे समीपमागतः स सनन्दनः शीघ्र वाक्यं समुदाजहार । तदाह । हे आचार्य भवत्कृतौ वार्तिकं कर्तुमेष हस्तामलकोऽपि समर्थः। आख्यानकी वृत्तम् ॥२२॥ [अपिना सुरेश्वरे त्वौदासीन्यमात्रं सूचितम्। न तु चित्सुखादिवत्पर्वथाऽनर्हत्वम्]॥२२॥ यतः करस्थामलकसदृशं सर्वे सिद्धान्तमप जानाति । अत एवामुष्मं भवतव हस्ता मलकाभिधानमदायि । उपजातिवृत्तम् ॥ २३ ॥ सनन्दनस्य वाचं समाकण्यर्धस्मितं यथा स्यात्तथा भाष्यकारो जगाद । तदाह । अस्य हस्तामलकस्य नैपुण्यमनुपमं परं तु समाहितत्वादस्य बहिः प्रवृत्तिर्न भवति । उपजातिवृत्तम् ॥ २४ ॥ समाहितत्वादित्याद्युक्तं विवृणोति । अयं तु बाल्ये पित्रा सादरं नियोजितोऽप्य क्षरणि न पपाठ । तेनोपनीतोऽपि गुरोः सकाशात्परमार्थनिष्ठो वेदान्न चावीतवान् । उपजातिवृत्तम् ॥ २५ ॥