पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० तस्य गर्वमपहर्तुमस्वर्व स्वाश्रयेषु करुणातिशयाच ।। व्यादिदेश स चतुर्दश विद्या सद्य एव मनसा गरिनात्रे ।। ७८ ।। सोऽधिगम्य तदनुग्रहमद्रयं तत्क्षणेन विदितास्विलविद्यः । ऐष्ट देशिकवरं परतत्त्व व्यञ्जकैर्ललिततोटकवृतैः ॥ ७९ ।। भित्तिः समदर्शितेति वा ।। ७७ । [ इति स्म हेत्येवाभिप्रायेणेत्यर्थः । पोति । भित्तिः समदर्शि चक्षुरादिचेष्टया पदर्शितेत्यन्वयः ] ।। ७७ ।। अखर्वमनल्पं तस्य पद्मपादस्य गर्वमपाकर्तु स्वयमेवाऽऽश्रयो थेषां तथाभूतेषु स्वभक्तेषु करुणाया अतिशयाच स श्रीशंकरस्तत्क्षण एव गिरिनान्ने चतुर्दश विद्या मनसाऽऽदिदेश ।। ७८ ।। स गिरिरम्यं तस्य गुरोरनुग्रहमधिगम्य तत्क्षणेन विदिताखिलविद्यः ।

  • भगवत्रुद्धौ मृतिजन्मजले सुखदुःखझषे पतितं व्यथितम् ।

कृपया शरणागतमुद्धर मामनुशाध्युपसन्नमनन्यगतिम् ॥ १ ॥ विनिवत्र्य रतिं विषये विषमां परिमुच्य शरीरविबद्भमतिम् । परमात्मपदे भव नित्यरतो जहि मोहमयं भ्रममात्ममते ।। २ ।। विसृजान्नमयादिषु पञ्चसु तामहमस्मि ममेति मतिं सततम् । दृशिरूपमनन्तमजं विगुणं त्दृदयस्थमवेहि सदाऽहमिति ।। ३ ।। जलभेदकृता बहुतेवरवेर्धटिकादिकृता नभसोऽपि यथा । मतिभेदकृता तुं तथा बहुता तव बुद्विदृशोऽविकृतस्य सदा ।। ४ ।। दिनकृत्प्रभया सदृशेन सदा जनवित्तगतं सकलं स्वचिता । विदितं भवताऽविकृतेन सदा यत एवमतोऽसि सदेव सदा ।। ५ ।। [ सर्गः १२]

  • अग्रिमं पद्यद्वयं ‘घ' पुस्तके ‘भगवनुदधौ' इत्यादिो कपञ्चका प्रागधिकं दृश्यते ।

सकलं मनसा क्रियया जनितं समवेक्ष्य विनाशितया त जगत् । निरविद्यत कश्चिदतो निखिलादविनाशकृते यतितव्यमिनि ।। १ ।। प्रतिपित्सुरसावविनाशिपदं यतिधर्मरतो यातिमेव गुरुम् । वेदितात्मवकलं समुपेत्य कविः प्रणिपत्य निवेदितवान्स्वमतम् ” ।। २ ।।

क. नु ।