पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ श्रीमच्छवकरदिग्विजयः । चारित्र्यमेतत्प्रयतविसंध्यं भक्तया पठेद्यः शृणुयादवन्ध्यम् । तीत्र्वाऽपमृत्यु प्रतिपद्य भक्ति स भुक्तभोगः समुपैति मुक्तिम् ॥ १२२३ ॥ इति श्रीमाधवीये तदुग्रभैरवनिर्जयः ॥ संक्षेपशंकरजये सर्ग एकादशोऽभवत् ॥ ११ ॥ अथ द्वादशः सर्गः । अथैकदाऽसौ यतिसार्वभौम स्तीर्थानि सर्वाणि चरन्सतीथ्यैः । घोरात्कलेगपितधर्ममागा द्रोकर्णमभ्यर्णचलार्णवौघम् ॥ १ ॥ उक्तचारित्र्यपठनादेः फलमाह । चारित्र्यमिति । यतः पावधानः । अव न्ध्यमनिष्फलम् । उपजातिवृत्तम् ॥ १२२३॥ [ प्रयतः पृतः पन्नित्यर्थः ] ॥ ७५ ॥ [ सर्गः १२ ] [ इति श्रीति । तदिति । तं श्रीशंकराचार्ये प्रत्यागतो य उग्रः शिरःपंहरणकामु कत्वाद्भयंकर एतादृशो यो भैरवी मैरवप्रणीततत्रविशेषमतनिष्ठः कापालिकविशेषस्तस्य नितरां निरुक्तनाशावविर्जयः पराजयो यत्र स तथेत्यर्थः ] ।। ११ ।। इति श्रीपरमहंसपरिव्राजकाचार्यबालगोपालतथिश्रीपूज्यपादशिप्यदत्त वंशावतंसरामकुमारसूनुधनपातिसृरिकृते श्राशंकराचार्थविजयड़ि [ण्डम एकादशः सर्गः ॥ ११ ॥ अथ द्वादशस्य टीका । अथ हस्तामलकादिपसङ्गः सपरकरं वर्णयितुमारभते । अथानन्तरमेकस्मिन्काले यतिचक्रवर्ती श्रीशांकरः शिष्यैः सह सर्वाणि तीर्थानि चवरन्घोरात्कलेगॉपितो रक्षितो धर्मो येन तमभ्यर्णोऽविदूरश्चलः समुद्रस्यैोधो रयो यस्य तं गोकर्णमागात् ।'अभेश्चावि दूर्ये' इत्यनेनार्दैर्निष्ठाया इण्निषेधः । उपजातिवृत्तम् ॥ १ ॥