पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ मर्गः ११] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सृजसि विश्वमिदं रजसाऽऽवृत स्थितिविधौ श्रितसत्त्व उदायुधः ॥ अवसि तद्धरणे तमसाऽऽवृतो हरसि देव तदा हरसंज्ञितः ॥ ६५ ॥ तव जनिर्न गुणास्तव तत्त्वतो जगदनुग्रहणाय भवादिकम् । तव पदं खलु वाङमनसातिगं श्रुतिवचश्चकितं तव बोधकम् ॥ ६६ ॥ नरहरे तव नामपरिश्रवा त्प्रमथगुह्यकदुष्टपिशाचकाः ।। अपसरन्ति विभोऽमुरनायका न हि पुरःस्थितये प्रभवन्त्यपि ॥ ६७ ॥ त्वमेव सर्गस्थितिहेतुरस्य त्वमेव नेता ऋहरेऽस्विन्लस्य ॥ त्वमेव चिन्त्यो हृदयेऽनवद्ये त्वामेव चिन्मात्रमहं प्रपद्ये ॥ ६८ ।। ४३१ त्वमेव ब्रह्मादिरूपेण सृष्टयादिकं करोषीत्याह । रजसाऽऽवृतो विश्वं सृजसि । स्थितिविधौ स्वीकृतसत्त्व उद्यतायुधः पालयसि । तस्य हरणसमये हे देव तमसाऽऽ वृतस्तदा हरसंज्ञितो हरासि ॥ ६५ ॥ वस्तुतस्त्वजस्य जन्म निर्गुणस्य गुणाश्च नैव सन्ति । त िजन्मादिकं किमर्थमित्यन आह । तव जन्मादिकं जगदनुग्रहणाय । यतस्तव पदं वाङ्मनसातिगम् 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इत्यादिश्रुतेः । तर्हि ‘तं त्वैोपनिषदं पुरुषं पृच्छामि’ इति श्रुतेः कथं पुरुषस्य श्रुतिगम्यतेति चेत्तत्राऽऽह । श्रुतिवचश्चकितं सत्तव बोधकम्। 'अस्थूलमनणु' इत्येवं निषेवमुखेन लक्षणावृत्या च बोधयति । न तु साक्षा दित्यर्थः ।। ६६ ।। यद्यपि नामरूपादिविनिर्मुक्तस्त्वं तथाऽपि हे नरहरे तव नामपरिश्रवणात्ममथाद योऽपसरन्ति दूरतरं गच्छन्ति । हे विभो दैत्यनायकास्तु पुरःस्थितयेऽपि समर्था न भवन्ति ।॥ ६७ ।। तथाच यतः सगादिहेतुर्नियश्रादिश्च त्वमेवातस्त्वामेव चिन्मात्रमहं प्रपद्य इत्याह । १ ख. ग. घ. 'तः । ६५। न. च ज'। २. क. 'ति कथं श्रु'।