पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११ ] धनपतसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ इतीरयत्येव मयि क्षणेन वनेचरोऽयं प्रविशन्वनान्तम् । निबध्य गाढं नृहरिं लताभिः पुण्यैरगण्यैः पुरतो न्यधान्मे ॥ ४९ ॥ महर्षिभिस्त्वं मनसाऽप्यगम्यो वनेचरस्यैव कथं वशेऽभूः । इत्यदुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ।। ५० ।। एकाग्रचित्तेन यथाऽमुनाऽहं ध्यातस्तथा धातृमुखैर्न पूर्वेः ॥ नोपालभेथास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तरोधिम् ।। ५१ ।। अाकण्र्य तां पद्मपदस्य वाणी मानन्दमप्रैरग्विलैरभावि । जगर्ज चोचैर्जगदण्डभाण्डं भूत्रा स्वधान्ना दलयनृसिंहः ।। ५२ ।। ततस्तदाभटचलत्समाधिः स्वात्मप्रबोधोन्मथितन्युपाधिः ।। उन्मील्य नेत्रे विकरालवक्त्रं व्यलोकयन्मानवपञ्चवक्त्रम् ॥ ५३ ।। ४२७ इत्येवं मयि कथयत्येव सत्ययं वनेचरो वनमध्यं क्षणमात्रेण प्रविशत्रुहारं लता भिर्गीढं निबध्य मे पुण्यैरगण्यैर्ममाग्रे स्थापितवान् ॥ ४९ ॥ अदुतेनाऽऽश्वर्येणाऽऽविष्टं मनो यस्य तथाभूतेन मयेत्येवं विज्ञाप्यमानोऽसौ विभुर्तृहरिरिति वक्ष्यवाणमुक्तवान् ॥ ५० ॥ तदुदाहरति । यथाऽमुना किरातयूनैकाग्रचित्तेनाहं ध्यानस्तथा पूर्वह्मादिभिरपि न ध्यातोऽतस्त्वं नोपालभेथा इति कथयन्मे प्रसादं कृत्वा तिरोधानं कृतवान् । इन्द्र वत्रा वृत्तम् ॥ ५१ ॥ पद्मपादस्य तां वाणीं श्रुत्वाऽखिलैरानन्दमयैरभावि सर्वेऽध्यानन्दममा अभूवन् । अनल्पेन स्वतेजसा जगद्भाण्डं दलयनृसिंहो जगर्ज च । उपजातिवृत्तम् ॥ ५२ ॥ ततस्तस्य गर्जनानन्तरं तस्याऽऽभटेन साहंकारनादेन चलन्समाविर्यस्य स्वात्म