पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११ ] धनपतिमूरिकृतडिण्डिमाख्यटीकासंवलितः । क्षुभ्यत्समुद्रं समुदृढरौद्रं रटन्निशाटं स्फुटदद्रिकूटम् ॥ ज्वलद्दिशान्तं प्रचलद्धरान्तं प्रविश्यदक्षं दलदन्तरिक्षम् ॥ ४१ ॥ जवादभिद्रुत्य शितस्वरुप्रै दैन्येश्वरस्येव पुरा नस्वागैः ॥ क्षिपत्रिालस्य स तस्य वक्षो ददार विक्षिप्तमुरारिपक्ष: ॥ ४२ ॥ दंष्टान्तरपोतदुरीहदेहः ॥ निन्ये तदानीं नृहरिर्विदीर्ण द्युपट्टनाट्टालिकमट्टहासम् ॥ ४३ ॥ आकर्णयंस्तं निनदं बहिर्गता उपागमन्नाकुलचित्तवृत्तयः ॥ व्यलोकयन्भैरवमग्रतो मृतं ततो विमुक्तं च गुरुं मुखोपितम् ।। ४४ ।। ४२५ भूतसंघो येन । संवेगेन संमृछितो संमोहिता लोकसंघो येन । किमेतदित्याकुलां देवसंघो यस्मात्स समुत्पपातेतिपूर्वेण संबन्धः ॥ ४० ॥ क्षुभ्यत्समुद्रमित्यादि क्रियाविशेषणम् । क्षुभ्यन्समुद्रो यस्यां क्रियायां समुदृढं रौद्र मत्यन्तभयानकं रटन्तो निशाटा राक्षसाद्यो यस्यां ज्वलन्तो दिशामन्ताः प्रान्तभागा यस्यां प्रचलट्टमेरन्तो यस्यां भ्रश्यन्त्यक्षाणि जनानामिन्द्रियाणि यस्यां दलदन्तरिक्ष यस्यां तथा जवादभिद्रुत्यति परेणान्वयः ॥ ४१ ॥ जवादभिद्रुत्य शितस्वरुः शितस्वरुस्तीक्ष्णं वत्रं तद्वदुनेखायें: पुरा दैत्येश्ध रस्य हिरण्यकशिपोरिव क्षिपत्रिशूलस्य तस्य कापालिकस्य वक्षः क्षिप्तः सुरारिपक्षो येन स नृसिंहो ददार ॥ ४२ ॥ ततश्च तत्तादृगत्युग्रनखायुवानां सिंहानामप्रयो दंष्ट्रान्तरे प्रोतो दुरीहस्य दुश्चेष्टस्य कापालिकस्य देहो येन स नृहरिस्तदानीं विदीर्णा द्युपट्टनानां स्वर्गनगराणामट्टालिका थेन तथाभूतमट्टहासं विस्तारितवान् ॥ ४३ ॥ बहिर्गताः सर्वे विनेयास्तं शब्दमाकर्णयन्नाकुलचित्तवृतयः समीपमागतवन्त १ ख. ग. घ. मूर्छितो। २ घ. 'र्वेणैव सै।