पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथैकादशः सर्गः । तत्रैकदाऽऽच्छादितनैजदोषः पौलस्त्यवत्कल्पितसाधुवेषः ।। निर्मानमायं स्थितकार्यशेषः कापालिकः कश्चिदनल्पदोषः ॥ १ ॥ वश्येन्द्रियाश्चैर्मुनिभिर्विमृग्यम् । आदि श्य भाष्यं सपदि प्रशस्य मासीनमाश्रित्य मुनेिं रहस्यम् ।। २ ।। दृष्टैव हृष्टः स चिरादभीष्टं निर्धार्य संसिद्धमिव स्वमिष्टम् ।। महद्विशिष्टं निजलाभतुष्टं विस्पष्टमाचष्ट च कृत्यशिष्टम् ॥ ३ ॥ गुणांस्तवाऽऽकण्र्य मुनेऽनवद्या न्सार्वज्ञसौशल्यदयालुताद्यान् । द्रधुं समुत्कण्ठितचित्तवृत्ति भर्भवन्तमागां विदितप्रवृत्तिः ॥ ४ ॥ ४१५ अथोग्रमैरवनिर्जयं सपरिकरं वर्णयितुमुपक्रमते । तत्र तस्मिन्देश एकदाऽऽच्छा दितस्चीयदोषः सीताहरणायाऽऽगतरावणवत्काल्पितः साधुवेो येन स्थितः कार्यस्य शेषो यस्यानल्पा दोषा यस्मिस्तथाभूतः कश्चिदसौ कापालिको मायामानविनिर्मुक्तं मुनिमपश्यदित्यन्वयः । इन्द्रवज्रा वृत्तम् ॥ १ ॥ मुनिं विशिनष्टि । कामक्रोधादीनां वश्यो न भवतीति तथा तं वश्येन्द्रियाश्चैर्मु निभिर्विमृग्यं यशस्यं भाष्यं पपद्यादिश्य रहस्यमेकान्तमाश्रित्याऽऽसीनम् । उपजाति वृत्तम् ॥ २ ॥ स कापालिकश्चिराद्भीष्टं दृष्ट्रा स्वमिष्टं संसिद्धमिव निर्वार्य हृष्टो महद्भयो विशिष्ट श्रेष्ठ निजलाभेन तुष्टं कृत्यशिष्टं स्वकर्तव्यशेषं स्पष्टं यथा स्यात्तथोक्तवान् ॥ ३ ॥ तद्वचनमुदाहरति । हे मुनेऽनवद्यान्सर्वज्ञताद्यांस्तव गुणानाकण्र्य भवन्तं द्रधुं सम्यगुत्कण्ठिता चित्तवृत्तिर्यस्य विदिता . तव प्रवृत्तिर्येन तादृशोऽहमागतवानस्मि ॥४॥[विदितेति । विदिता ज्ञाता प्रवृत्तिस्त्वदीया लोकोपकारैकचेष्टा येन सः]॥४॥ १ क. 'र्वश्वसौ'।