पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ श्रीमच्छकरदिग्विजयः । आत्मत्वमन्यतमगं यदि चक्षुरादे श्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ॥ एकाश्रयत्वान्नयमात्स्मरणानुभूत्या दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥ ८१ ॥ मनोऽपि नाऽऽत्मा करणत्वहतो र्मनो मदीयं गतमन्यतोऽभूत् । इति प्रतीतेव्र्यभिचारितायाः मुप्तौ च तचिन्मनैसोर्विविक्तता ॥ ८२ ॥ अनयैव दिशा निराकृता न च बुद्धेरपि चाऽऽत्मता स्फुटम् ।। अपि भेदगतेरनन्वया त्करणादाविव बुद्धिमुज्झ भोः || ८३ ॥ [ सर्गः १० ] किंच यदि चक्षुरादेरन्यतमगोचरमात्मत्वं स्यात्तर्हि चक्षुर्विनाशसमये स्मरणं नैव स्यात्तत्र हेतुः स्मरणानुभवयोरेकात्माश्रयत्वात् । किंचव योऽहं दृष्टवान्सोऽहं शृणो मीति दृष्टश्रुतार्थविषया प्रत्यभिज्ञा च न स्यात् । तस्मादिन्द्रिययान्यतममप्यात्मा न भवैतत्यिर्थः । वसन्ततिलका वृत्तम् ॥ ८१ ॥ मन्वस्तु तर्हि मन एवाऽऽत्मेति तत्राऽऽङ् । मनोऽप्यात्मा न भवति करणत्वेह तोर्मदीयं मनोऽन्यतो गतमभूदिति भेदप्रतीतेः । सुषुप्तौ व्यभिचारितायाश्च चिन्मन सोवैलक्षण्यम् । उपजातिवृत्तम् ॥ ८२ ॥ [ सुप्तौ मनस इति शेषः । व्यभिचारिताया व्यभिचारित्वाद्विलीनत्वादिति यावत् । तत्तस्माद्धेतोश्चिन्मनसोरात्ममनसर्विकिक्तता विभिन्नताऽस्तीत्यर्थः ।। ८२ ।। उक्तन्यायं बुद्धावतिदिशति । अनयैव दिशा निराकृतत्वादुद्धेरप्यात्मता स्पष्टं यथा तथा नास्ति । स्फुटत्वमावेदयति । मदीया बुद्धिरन्यतोऽभूदिति भेदावगतेः सुषुप्तावन न्वयाच करणादाविव बुद्धिमप्यात्मत्वेन मैवाङ्गकुरु । वियोगिनी वृत्तम् || ८३ ।। [ करणादाविवेद्रियादाविव ] ।। ८३ ।। १ घ. च ते चिन्म'। २ ख. घ. ‘न सी विविक्ते । ८२ । अ'। ३. क. ख. घ. 'याण्यप्या'। ४ . ग. घ. 'वतीत्य'। ५ क. उतं न्या'।