पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छधकरदिग्विजयः । नरहरिकृपया ततः प्रशान्ते प्रबलतरे स हुताशने प्रविष्टः । निरगमदचलेन्द्रकन्दरान्ता द्विधुरिव वक्त्रबिलाद्विधुंतुदस्य ॥ ६० ॥ तदनु शमधनाधिपो विनेयै श्चिरविरहादतिवर्धमानहार्दैः ।। सनक इव वृतः सनन्दनाचै र्जिगमिषुराजनि मण्डनस्य गेहम् ॥ ६१ ॥ तदनु सदनममेत्य पूर्वदृष्टं गगनपथाद्वलितक्रियाभिमानम् ॥ विषयविषनिवृत्ततर्षमुचै रतनुत मण्डनमिश्रमक्षिपात्रम् ॥ ६२ ॥ तं समीक्ष्य नभसश्युतं स च माञ्जलिः प्रणतपूर्वविग्रहः । अर्हणाभिरभिपूज्य तस्थिवा नीक्षणैरनिमिपैः पिबन्निव ॥ ६३ ॥ [ सर्गः १० ] ततश्च नरहरिकृपया प्रबलतरे हुताशने प्रकर्षेण शान्ते सति तस्मिन्गुहायां वा मविष्ट: स श्रीशंकरो गिरीन्द्रकन्दरामध्यान्निरगमत् । विधुं तुदति हिनस्तीति विधुंतुदो राहुस्तस्य मुखलक्षणाद्विलाच्छशीव ।। ६० ।। ततः पश्चाद्विरहादतिवर्धमानसैौहार्दैः शिष्यैः सनन्दनाचैरावृतः सनक इव शम धनाधिपो मण्डनस्य गेहं गन्तुमिच्छुराजनि सम्यगभूत् ॥ ६१ ॥ तदनु गगनमार्गेण पूर्वदृष्टं मण्डनगेहमेत्य गलितक्रियाभिमानं यतो विषयलक्षणवि षान्निवृत्ताभिलाषं मण्डनमिश्रमुचैरक्षिपात्रमकृत ॥ ६२ ॥ आकाशादवतीर्णे तं श्रीशंकरं सम्यक्परप्रेम्णा दृष्टा स च मण्डनः प्राञ्जलिः पुनश्च प्रकर्षेण नम्रीकृतः पूर्वविग्रहः शिरोभागो येन स योग्याभिः पूजाभिरभिपूज्यानि मिपैरीक्षणैः पिबन्निव तस्थिवान् । रथोद्धता वृत्तम् ॥ ६३ ॥ [ अनिभिपैरौत्कण्ठ्यत टस्थैः । ईक्षणैरवलोकनैः ] ॥ ६३ ॥