पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजपः । नेतिनेत्यादिनिगमवचनेन निपुणं निषिध्य मूतमूर्तराशिम् ॥ यदशक्यनिह्नवं स्वात्मरूपतया जानन्ति कोविदास्तत्वमसि तत्त्वम् ॥ ४८ ॥ खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नमयादिकोशानुषजालो । कवयो विविच्य युक्तयवघाततो यत्तण्डुलवदाद्दति तत्त्वमसि तत्त्वम् ।। ४९ ॥ अस्मदुक्त्या परं स्मरेत्युक्त्वा । ‘अथात आदेशो नेति नेोति। अस्थूलमनण्वहस्चम वाघमनन्तरमबाह्यमपूवमनपरम' । अशाब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवश्च यत् । अन्नाघनन्त महत: पर ध्रुव [ सर्गः १० ] इत्यादिश्रुतिभिस्तं स्मारयन्ति । नेतिनेत्यादिनिगमवचनेन मृतमूर्नराशि पम्यडू निषिध्य सर्वाविष्ठानत्वान्निरवधिबावायोगात्प्रातिषेदुः स्वरूपत्वेन प्रतिषधसाक्षितयाऽ वस्थितत्वात्सत्यस्यापि सत्यमम्तीत्येवेपलब्वव्य । ‘अ पन्नेव स भवति' | 'असपद्रहोति वेद चेत्' इति श्रुतेश्च निषेदुमशक्यं यत् ‘अहं ब्रह्मास्मि’ इति स्वात्मरूपतया विद्वांसो जानन्ति तत्तत्वं परमार्थवस्तु त्वमसि ॥ ४८ ॥ तथा पश्वकोशविवेकेन कवयो यदात्मत्वेन प्रतिपद्यन्ते तत्तत्वं त्वमसीति स्मार यन्ति । आकाशादिकं विश्धमुत्पाद्यानुप्रविश्यान्नमयमाणमयमनोमयविज्ञानमयानन्दमय कोशलक्षणे तुषजाले गूढं युक्तिलक्षणावातेन कवयो विविच्य तण्डुलवद्यदाददति तत्तत्त्वं त्वमसि । तथाच श्रुतिः । “तस्माद्वा एतस्मादात्मन आकाशाः संभूतः । आका शाद्वायुः । वायोराग्रः । अग्रेरापः । अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधी भ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः'।'तस्माद्वा एतस्मादन्नरस मयात् । अन्योन्तर आत्मा प्राणमयः' । “तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽ न्तर आत्मा मनोमयः'। “तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञान मयः'। “तस्माद्वा एतस्माद्विज्ञानमयादन्योन्तर आत्माऽऽनन्दमयः'। “सोऽकामयत बहु स्यां प्रजायेति'। “स तपोऽतप्यत । स तपस्तप्त्वा। इद : सर्वेभसृजत। यदि किं च । तत्सृष्टा तदेवानुपाविशत् । तदनुपविश्य । सच त्यचाभवत्' इत्याद्या । युक्तिस्ता वमितो देह आत्मा न भवति कार्थत्वाद्वटवत् । ननु विपक्षे बाधकाभावादप्रयोज