पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अथ राज्यधुरं धराधिपः परमासेषु निवेश्य मन्त्रिषु । बुभुजे विषयान्विलासिनी सचिवोऽन्यक्षितिपालदुर्लभान् ॥ ११ ॥ स्फटिकफलके ज्योत्स्नाशु मनोज्ञशिरोगृहे वरयुवतिभिर्दीव्यन्नक्षेदुरोदरकेलिषु ॥ अधरदशन बाह्वावाह महात्पलताडन रतिविनिमयं राजाऽकार्षीद्ग्लहं विजपे मिथः ॥ १२ ॥ अधरजसुधाश्लेषादुच्यं सुगन्धि मुखानिल व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ॥ मधु मदकरं पायं पापं प्रियाः समपायय त्कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥ १३ ॥ मधुमदकलं मन्दस्विन्ने मनोहरभाषणं निभृतपुलकं सीत्काराढ्यं सरोरुहसौरभम् ॥ दरमुकुलिताक्षीषलुज्जं विस्मृत्वरमन्मथं प्रचरदलकं कान्तावक्त्रं निपीय कृती नृपः ॥ १४ ॥ ३७७ एवं मत्रिणां जल्पनादि निरूप्य राज्ञश्चरितं वर्णयितुमुपक्रमते । अथ राजदेहम वेशाद्यनन्तरं भूमिपः परमाक्षेषु मत्रिषु राज्यभारं निवेश्य विलासिनीसहायोऽन्यभूमि पालानां दुर्लभान्विषयान्बुभुजे ॥ ११ ॥ [ विषयानिष्टशब्दादीन् ] ॥ ११ ॥ ज्योत्स्नावच्छुभे स्फटिकफलके मनोज्ञानि शिरोगृहाण्युपबर्हणानि यस्मिस्तस्मिन्दु रोदरकेलिषु यूतकारक्रीडास्चक्षेदव्यन्सन्राजा मिथो जयेऽधरदशानं बाह्वावाहं भुजेनो द्वइनं महोत्पलेन ताडनं रतिविपर्ययं ग्लहं पणमकार्षीत् । हरिणी वृत्तम् । ‘रसयुगह येन्सै म्रौ स्लैौ गो यदा हरिणी तदा' इति लक्षणात् ॥१२॥ [वरेति । श्रेष्ठसुन्दरी भिरित्यर्थः ] ॥ १२ ॥ अवरजातायाः सुधायाः श्लेषादुच्यं मुखवायोव्यतिकरवशात्संपर्कवशात्सुगन्धि कान्तानां करेभ्यः प्राप्तमत एवातिमियं मद्करमिन्दुच्छायया चन्द्रमतिबिम्बेन परि ष्कृतं मधु मयं कामं यथेष्टमादरात्सुवर्णपात्रैः पीत्वा पीत्वा मियाः समपाययत् ॥१३॥ [ रुच्यं रुचय आास्वाद्यताया अभईम् ] ॥ १३ ॥ मधुमदेन कलमव्यक्ताक्षरं मन्दस्विन्नमीषत्स्वेदयुक्तं मनोहरं भाषणं यस्मिन्निभृतरो १ ख. घ. निसृत'। २ ख. 'राजनिता'। ३ क. ख. ग. 'थेष्टं पी'। ४ ख. घ. 'भिसृत'।