पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ श्रीमच्छकरदिग्विजय । परिपाल्यतामिह वसद्रिरिदं वपुरममादमनवद्यगुणाः ॥ अहमास्थितस्तदुचितं करणं कलयामि यावदसमेषुकलाम् ॥ ३ ॥ इति शिष्यवर्गमनुशास्य यमि प्रवरो विसृष्टकरणोऽधिगुहम् ।। महिपस्यं वष्र्म गुरुयोगबलोऽ विशदातिवाहिकशरीरयुतः ॥ ४ ॥ अङ्गष्टमारभ्य समीरणं नय न्करन्धमागद्वहिरेत्य योगवित् ॥ करन्धमार्गेण शनेः प्रविष्टवा न्मृतस्य यावचरणाग्रमेकधीः ॥ १०५ ॥ गात्रं गतासोर्वसुधाधिपस्य शनैः समास्पन्दत हृत्प्रदेशे ॥ तथोदमीलन्नयनं क्रमेण तथोदतिष्ठत्स यथा पुरैव ॥ ६ ॥ तथाच यावत्कामकलाज्ञानायोचितं शरीरमास्थितोऽहं विषमेषुकलामनुभवामि ताव दस्यां शिलायां वसद्भिर्हऽनवद्यगुणा इदं च मद्वपुरप्रमादं यथा स्यात्तथा परिपाल्यता मित्यर्थः ।। ३ ।। इत्येवं शिष्यवर्गमनुशास्य गुहायां त्यक्तदेहो गुरुयोगबल आतिवाहिकेन ज्ञाने न्द्रियकर्मेन्द्रियमाणमनोबुद्धिरुपेण लिङ्गशरीरेण युतो यमिनां प्रवरः श्रीशंकरोऽमर काभिघस्य क्षितिपस्य कायमविशत् ॥ ४ ॥ [ गुरुयोगबलः प्रबलयोगसामथ्र्यः ] [ वष्मै ‘शरीरं वष्मै विप्रहः' इत्यमराच्छरीरम् ] ॥ ४ ॥ कथं विसृष्टदेहस्तच्छरीरं प्रविष्टवानित्यपेक्षायां तत्प्रकारं दर्शयति । स्वशरीरस्या ङ्गष्टमारभ्य दशमद्वारपर्यन्तं माणवायु नयन्सञ्शिरोरन्भ्रमार्गाद्वहिरागत्य मृतस्य राज देहस्य चरणाग्रपर्यन्तं करन्ध्रमाण शनैः प्रविष्टवानेवं सत्यप्येकबुद्धिरेव । उपजाति वृत्तम् ॥ १०५॥ [ करन्ध्रमार्गेण ब्रह्मरन्धद्वारा । एकधीधरणयैकाग्रबुद्धिः ] ॥ ५ ॥ ततः किं वृत्तमित्यपेक्षायामाह । मृतकस्य भूमिपतेर्गात्रं हृत्प्रदेशे शनैः समास्पन्दत सम्यक्प्रचलितं तथा इस्तादिचलनक्रमेण नयनमुदमीलत्तथा स राजा यथापूर्वमेवोद् तिष्ठत् ॥ ६ ॥ [ सर्गः ९] १ ग. 'स्य कायमुरु'। २ क. घ. 'देह उरु'।