पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सह तेन वादमुपगम्य चिरं दुहितुः पतिस्तु यतिवेषजुषा ॥ विजितस्तमेव शरणं जगतां शरणं गमिष्यति विसृष्टगृहः ॥ ५४ ॥ इति गामुदीर्य स मुनिः प्रययौ सकल यथातथमभूच मम ॥ भवदीयशिष्यपद्मस्य कथं वितथं भविष्यति मुनेर्वचसि ॥ ५५ ॥ अपि तु त्वयाऽद्य न समग्रजितः प्रथिताग्रणीर्मम पतिर्यदहम् ॥ वपुरर्धमस्य न जिता मतिम न्नपि मां विजित्य कुरु शिष्यमिमम् ।। ५६ ॥ यदपि त्वमस्य जगतः प्रभवा ननु सर्वविच परमः पुरुषः ॥ तदपि त्वयैव सह वादकृते हृदयं बिभर्ति मम तूत्कलिकाम् ।। ५७ ।। ३५९ प्रायम् । औपनिषदमुपनिषदेकसंमतं दृश्यामिथ्यात्वपूर्वकमद्वतब्रह्मात्मैक्यलक्षणमिति यावत् । कृतान्तं कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु इति मेदिन्याः सिद्धान्तमित्यर्थः ] ॥ ५३ ॥ तेन यतिवेषजुषा श्रशिांकरेण सह तव दुहितुः पतिर्वादं प्राप्य तेन विजितः सन्प रित्यक्तगृहो जगतां शरणं तं शरणं गमिष्यति ॥ ५४ ॥ इति वाचमुदीर्य स मुनिः प्रययौ मम सर्वं भविप्यं यथा तेनोक्त तथैवाभृत्तस्मादस्य मम पत्युर्भवदीयशिष्यपदं मुनेर्वचसि कथमसत्यं भविष्यति ॥ ५५ ॥ यद्यप्येवं तथाऽपि मदविजयेन सकलस्यापराजितत्वान्मां विजित्थेमं शिष्यं कुर्वि त्याइ । अपितु किंतु पथितानामयणीभेम पतिरद्य त्वया समप्रो जिता न भवतीति तथा यद्यस्मादहमस्याऽधं शरीरं न जिता 'आत्मनोऽर्ध पत्नी' इति श्रुतेः । एत ज्ज्ञातुं योग्योऽसीति सूचयन्संबोधयति । हे मतिमन्निति । तस्मान्मां विजित्येमं शिष्यं कुरु ॥ ५६ ॥ १ ख. ग. घ. 'मम स्वरू'।