पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ तदहं विसृज्य सुतदारगृहँ द्रविणानि कर्म च गृहे विहितम् ॥ शरणं वृणोमि भगवञ्चरणा वनुशाधि किंकरममुं कृपया ॥ ४३ ॥ इति सूतृतोक्तिभिरुदीर्णगुणः मुधियाऽऽत्मवाननुजिघृक्षुरसौ ॥ समुदैक्षतास्य सहधर्मचरीं विदिताशया मुनिमवोचत सा ॥ ४४ ॥ यतिपुण्डरीक तव वेद्मि मनो ननु पूर्वमेव विदितं च मया ॥ इह भावि तापसमुखादस्विलं तदुदीर्यते शृणु ससभ्यजनः ॥ ४५ ॥ [ सर्गः ९ ] पद्मसेवनमेव दृग्गोचरः प्रत्यक्षः स्वर्गः । इदं प्रागुक्तवस्तुजातम् । सlवचाय सम्य उड्नणयि ] ॥ ४२ ॥ तत्तस्मादहं सुतादि सर्वे परित्यज्य भवचरणौ शरणं वृणोम्यतोऽमुं मां किंकरं शाध्याज्ञापय । अमिताक्षरा वृत्तम् ।। ४३ ॥ [ सुतेति । एतेन मण्डनमिश्राणां पुत्र सद्भावोऽवगम्यते । यदि न सांप्रदायिकानां तत्प्रसिद्धिस्तत्र सुतशब्देन शिष्या एव ग्राह्याः । गृहे गृहस्थाश्रमे विहितं कर्मान्निहोत्राद्यपि ] ।। ४३ ॥ इत्येवं सुबुद्धिना मण्डनेन सूनृतोक्तिभिरुदीर्णगुण आत्मवानसी श्रीशंकरस्तमनु ग्रहीतुमिच्छुरस्य मण्डनस्य सहधर्मचरीं पत्नीं समुदैक्षत विदितो मुनेराशयो यया सा सरस्वती मुनिमवोचत ॥ ४४ । [ सूनृतोक्तिभिः । ‘सूनृतं प्रिये' इत्यमरात्प्रि यवाग्भिरित्यर्थः ] ॥ ४४ ॥ यदुवाच तदाह । हे यतिव्याघ्र 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । कोशकारान्तरे व्याघे पुण्डरीकोऽग्निदिग्गजे' इति विश्धप्रकाशः । अहं तव मनोगतं वेद्मि पूर्वमेव चेहास्मिन्स्वजन्मनि यत्सर्वं भविष्यं तापसमुखान्मया विदितं तदुदीर्यते सभ्यजनैः स त्वं शृणु ॥ ४५ ॥ १ क. मुं किं'। २ ग. 'ह शू'।