पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । त्रिदिवौकसामपि पुमर्थकरी मिह संसरज्जनविमुक्तिकरीम् । करुणोर्मिलां तव कटाक्षझरी मवगाहतेऽत्र स्वलु धन्यतमः ।। ३८ ॥ केचिचञ्चललोचनाकुचतटीचेलाञ्चलोञ्चालन स्पर्शद्राक्परिरम्भसंभ्रमकलालीलासु लोलाशयाः । सन्त्वेते कृतिनस्तु निस्तुलयशःकोशादयः श्रीगुरु व्याहारक्षरितामृताब्धिलहरीदोलासु खेलन्त्यमी ॥ ३९ ॥ पलवं वैराग्यदुमस्य वैराग्यलक्षणपारिजातस्य कोरकं कलिकाभूतं तितिक्षावलयाः मसूनोत्करं पुष्पनिचयमैकाग्रीसुमनसः समाधानपुष्पस्य मरन्दविसृति मकरन्दविस्तारं श्रद्धायाः समुद्यत्फलं तथाच शान्त्यादिमताऽधिकारिणा लभ्यं तमहमसंरूयातैः पुराकृतैः पुण्यैः प्राप्तवानस्मीत्यहो मद्भाग्यमाहात्म्यमिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ ३७ ॥ अतोऽत्रास्मिलोके तव कटाक्षझरीं वन्यतमोऽवगाहते । तां विशिनष्टि । देवा नामपि चतुर्विधपुरुषार्थकरीमिह च संसरतां जनानां विमुक्तिकरीं करुणालक्षणोर्मिभि व्यप्ताम् । अमिताक्षरा वृत्तम् ॥ ३८ ॥ ननु मदालीलासु लोलाशयानामुक्तझर्यवगाहनासंभवात्कथमिह संसरतां विमोक्ष करत्वं तस्या इत्याशङ्कयाऽऽह । केचिदेते विषयिणश्चञ्चले लोचने यासां तासाम ङ्गनानां कुचतटीवसैकदेशोचालनादिरूपासु लीलासुचवश्चलान्तःकरणाः सन्ति चेत्सन्तु तथाऽप्यमी वशीकृतचित्ता अप्रतिमयशसां कोशादय: पात्रमञ्षादिरूपाः श्रीगु रोस्तव व्याहारेभ्यः क्षरितस्य निःसृतस्यामृतस्य योऽब्धिस्तस्य लहरीलक्षणासु दोलासु खेलान्त । तत्र द्राक्परिरम्भो झटित्यालिङ्गनम् । कला शिल्पनैपुण्यम् । प्रियानुकरणं लीला वाग्भिर्गत्या च चेष्टया'। शार्दूलविक्रीडितं वृत्तम् ॥ ३९ ॥ १ घ. 'मदधि'। २ क. 'द्या ब्रह्मविद्याल'।