पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ श्रीमच्छकरदिग्विजयः । यदि विद्यते कविजनाविदितं हृदयं मुनेस्तदिह वर्णय भोः ॥ यदि युक्तमत्रभवता कथितं हृदि कुर्महे दलदहंकृतयः ॥ ९ ॥ अभिसंधिमानपि परे विषय प्रसरन्मतीननुजिघृक्षुरसौ । तदवाप्तिसाधनतया सकलं सुकृतं न्यरुपयदिति स्म परम् ॥ ६ ॥ वचनं तमेतमिति धर्मचयं विदधाति बोधजनिहेतुतया ॥ तदपेक्षयैव स च मोक्षपरो निरधारयन्न परथेति वयम् ॥ ७ ॥ [ सर्ग: ९ ] नयोऽन्यायो न हि । किं तु वयमेवानभिज्ञतया मुनेरभिप्रायं यथावन्न मिमीमहे प्रमातुं न शाकुमः ॥ ४ ॥ [ अत्र वयमेवेति स्वस्य तत्ताश्चर्याभिज्ञत्वेऽप्यमानित्वाव द्योतनार्थं तेनानभिशैर्भवादृशैरेव तद्रहस्यं न ज्ञायत इति ध्वन्यते ] ॥ ४ ॥ एवं श्रुत्वाऽऽत्युत्सुको मण्डन आह । यदि कविजनैरप्यविदितं मुनेर्दूदयमभिप्रायो विद्यते तत्तहहास्मदये वर्णय । ननु मुन्यभिप्रायवित्वाभिमानवतां भवद्विधानामग्रे तद्व र्णनं निष्फलमित्याशङ्कयाऽऽह । यदि भवताऽत्रास्मिन्हृदयवर्णने प्रसक्त युक्त कथितं तहिं दलिताहंकृतयः सन्तो वयं तदृदि कुर्महे ॥ ५ ॥ [ कवीति । पण्डितव्राताज्ञा तमित्यर्थः । दलद इंकृतयो निरभिमानाः ] ॥ ५ ॥ एवं प्रार्थितः स श्रीशंकरो जैमिन्याभप्रायमाविष्करोति । परे ब्रह्मण्यभिप्रायवानपि विषयेषु प्रवाहीकृतबुद्धींस्तत्रानाविकॉरमालोच्य तत्राधिकाराय ताननुग्रहीतुमिच्छुरसी मुनिः परब्रह्मप्राप्तिसाधनतया परं केवलं सुकृतं पुण्यं कर्मातिशयेन निरूपितवान्न तु पैरं ब्रहोत्यर्थः ॥ ६ ॥ [ सकलं यावत्सहस्राधिकरणविचार्यमित्यर्थः ] ॥ ६ ॥ नन्विदं भवद्भिः कथं ज्ञातमिति चेच्छूत्यर्थनिर्णायकस्य श्रुत्यननुरूपाभिप्रायवत्त्वा भावनिश्चयादित्याशयेनाऽऽह । वचनांमति । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदि षन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति वचनं परब्रह्मावगतिजन्महेतुतया ब्रह्मचर्या दिधर्मसमुदायं विद्वाति यद्यपि प्रत्ययार्थप्रधानतापक्षे सन्नर्थेच्छाजनिहेतुतया तद्वि धायकं तथाऽप्यधेन जिगमिषतीतिवत्प्रकृत्यर्थप्रधानताश्रयेणैवमुक्तम् । तद्वचनापेक्ष १ घ. "कारिणोऽन "। २ ख. ग. परब्र"।